________________
प्रथमं परिशिष्टम्- टिप्पनानि से अविसुद्ध, तहावि अप्पाणं गरिहंतो सुद्धं साहुमग्गं परूवेंतो आराधगो भवति ॥५४३५॥ ___ इमो चेव अत्थो भण्णति- ओसण्णो वि विहारे कम्मं सिढिलेति सुलभबोही य । चरणकरणं विसुद्धं, उवव्हेंतो परूवेंतो ॥५४३६॥ कंठ्या ।" - निशीथ० चूर्णिः ॥
[पृ०४७१] “अथाप्रशस्तभावनानां नामग्राहं गृहीत्वा सङ्ख्यामाह- कंदप्प देवकिव्विस, अभिओगा आसुरा य सम्मोहा । एसा य संकिलिट्ठा, पंचविहा भावणा भणिया ॥१२९३॥ कन्दर्प: कामस्तत्प्रधानाः षिड्गप्राया देवविशेषाः कन्दर्पा उच्यन्ते, तेषामियं कान्दी । एवं देवानां मध्ये किल्बिषा: पापा अत एवास्पृश्यादिधर्माणश्चण्डालप्रायास्तेषामियं दैवकिल्बिषी । आ समन्ताद् आभिमुख्यन [वा] युज्यन्ते प्रेष्यकर्मणि व्यापार्यन्त इत्याभियोग्याः किङ्करस्थानीया देवविशेषास्तेषामियमाभियोगी। असुरा: भवनपतिदेवविशेषास्तेषामियमासुरी । सम्मुह्यन्तीति सम्मोहा: मूढात्मानो देवविशेषास्तेषामियं साम्मोही । गाथायां प्राकृतत्वाद् आप्प्रत्ययः । एषाम् अप्रशस्ता पञ्चविधा भावना तत्तत्स्वभावाभ्यासरूपा भणिता ॥१२९३॥
अथासामेव फलमाह- जो संजओ वि एयासु अप्पसत्थासु भावणं कुणइ । सो तविहेसु गच्छइ, सुरेसु भइओ चरणहीणो ॥१२९४॥ यः संयतोऽपि व्यवहारतः साधुरप्येताभिप्रशस्ताभिर्भावनाभिः, गाथायां तृतीयार्थे सप्तमी, भावनम् आत्मनो वासनं करोति सः तद्विधेषु तादृशेषु कान्दर्पिकादिषु सुरेषु गच्छति । यस्तु चरणरहितः सर्वथा चारित्रसत्ताविकलो द्रव्यचरणहीनो वा सः भाज्य: तद्विधेषु वा देवेषूत्पद्यते नरक-तिर्यङ्-मनुष्येषु वा ॥१२९४॥"
अथाऽऽसुरीमाह- अणुबद्धविग्गहो चिय, संसत्ततवो निमित्तमाएसी । निक्किव निराणुकंपो, आसुरियं भावणं कुणइ ॥१३१५॥ अनुबद्धविग्रहः संसक्ततपा निमित्तादेशी निष्कृपो निरनुकम्प सन् आसुरीं भावनां करोतीति नियुक्तिगाथासमासार्थः ॥१३१५॥ ___अथाभियोगीमाह- कोउअ भूई पसिणे, पसिणापसिणे निमित्तमाजीवी । इड्डि-रससायगुरुतो, अभिओगं भावणं कुणइ ॥१३०८॥ ऋद्धि-रस-सातगुरुकः सन् यः कौतुकाजीवी भूतिकर्माजीवी प्रश्नाजीवी प्रश्नप्रश्नाजीवी निमित्ताजीवी च भवति स एवंविध आभियोगी भावनां करोतीति ॥१३०८॥" - बृहत्कल्पटीका । अस्या गाथाया विस्तरेण व्याख्यानं बृहत्कल्पभाष्यस्य १३०९-१३१४ गाथासु तट्टीकायां च वर्तते ॥
पृ०४७२] “सम्प्रति साम्मोहीमाह- उम्मग्गदेसणा १ मग्गदूसणा २ मग्गविप्पडीवत्ती ३। मोहेण य ४ मोहित्ता ५, सम्मोहं भावणं कुणइ ॥१३२१॥ उन्मार्गदेशना १ मार्गदूषणा २ मार्गविप्रतिपत्तिश्च ३ यस्य भवतीति वाक्यशेषः, मोहेन च यः स्वयं मुह्यति ४, एवं कृत्वा परं च मोहयित्वा ५ साम्मोहीं भावनां करोतीति नियुक्तिगाथासमासार्थः ॥१३२१।।
अथ दैवकिल्बिषिकी बिभावयिषुराह- नाणस्स केवलीणं, धम्मायरियाण सव्वसाहूणं । माई अवन्नवाई, किव्विसियं भावणं कुणइ ॥१३०२॥ ज्ञानस्य केवलिनां धर्माचार्याणां सर्वसाधूनाम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org