________________
प्रथमं परिशिष्टम्- टिप्पनानि
एतेषामवर्णवादी, तथा मायी स्वभावनिगूहनादिना मायावान् एष किल्बिषिकी भावनां करोतीति नियुक्तिगाथासमासार्थः ॥१३०२॥
अथासामेव प्ररूपणां चिकीर्षुः प्रथमतः कन्दर्पभावनां प्ररूपयति- कंदप्पे कुक्कुइए, दवसीले यावि हासणकरे य । विम्हाविंतो य परं, कंदप्पं भावणं कुणइ ॥१२९५॥ इह कन्दर्पशब्देन कन्दर्पवानुच्यते, एवं कौत्कुच्यवान् द्रवशीलश्चापि हासनकरश्च विस्मापयँश्च परं कान्दी भावनां करोतीति सङ्ग्रहगाथासमासार्थः ॥१२९५॥" - बृहत्कल्पटीका । [पृ० ४७६] अथ शृङ्गारलक्षणम्
व्यवहारः पुनार्योरन्योन्यं रक्तयो रतिप्रकृतिः । श्रृङ्गारः स द्वेधा संभोगो विप्रलम्भश्च ॥ संभोगः संगतयोर्वियुक्तयोर्यश्च विप्रलम्भोऽसौ ।
पुनरप्येष द्वेधा प्रच्छन्नश्च प्रकाशश्च ॥१२।५-६॥ अथ करुणः- करुण: शोकप्रकृति: शोकश्च भवेद्विपत्तितः प्राप्तेः ।
इष्टस्यानिष्टस्य च विधिविहतो नायकस्तत्र ॥ अच्छिन्ननयनसलिलप्रलापवैवर्ण्यमोहनिर्वेदाः ।
क्षितिचेष्टनपरिदेवनविधिनिन्दाश्चेति करुणे स्युः ॥१५।३-४॥ अथ बीभत्सः- भवति जुगुप्साप्रकृतिर्बीभत्सः सा तु दर्शनाच्छ्रवणात् ।
संकीर्तनात्तथेन्द्रियविषयाणामत्यहृद्यानाम् ॥ हृल्लेखननिष्ठीवनमुखकूणनसर्वगात्रसंहाराः ।
उद्वेगः सन्त्यस्मिन्गाम्भीर्यान्नोत्तमानां तु ॥१५।५-६॥ अथ रौद्रः- रौद्रः क्रोधप्रकृतिः क्रोधोऽरिकृतात्पराभवाद्भवति ।
तत्र सुदारुणचेष्टः सामर्षो नायकोऽत्युग्रः ॥ तत्र निजांसस्फालनविषमभृकुटीक्षणायुधोत्क्षेपाः । सन्ति स्वशक्तिशंसाप्रतिपक्षाक्षेपदलनानि ॥१५॥१३-१४॥
- इति रुद्रटविरचिते काव्यालङ्कारे । [पृ०४८१] “अथोपसर्गान् व्याख्यातुमाह- उवसजणमुवसग्गो तेण तओ व उवसजए जम्हा। सो दिव्व-मणुय-तेरिच्छिया-ऽऽयसंवेयणाभेओ ॥३००५॥ व्या० उपसर्जनमुपसर्गः अथवा करणसाधनः- उपसृज्यते संबध्यते पीडादिभिः सह जीवस्तेनेत्युपसर्गः । अथवा कर्मसाधनः- उपसृज्यते संबध्यते तकोऽसावेव जीवेन सह यस्मात् तत उपसर्गः । अथवा उपादानसाधन:- ततस्तस्मादुपसर्गाज्जीव उपसृज्यते संबध्यते पीडादिभिः सह यस्मात् तत उपसर्गः । स च देवेभ्यो भवो दिव्यः, मनुष्येभ्यो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org