SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ प्रथमं परिशिष्टम्- टिप्पनानि स्त्रिंशद्योजनसहस्राणि त्रीणि शतानि त्रयस्त्रिंशदधिकानि त्रिभागश्च योजनस्य [३३३३३ ३ ] । लघुपातालकलशानां त्रीणि योजनशतानि त्रयस्त्रिंशदधिकानि त्रिभागश्च योजनस्य [३३३ ३] । एतेषु च सर्वेषु महापातालकलशेषु लघुपातालकलशेषु च प्रत्येकमधस्तने त्रिभागे वायुः, मध्यमे त्रिभागे वायुरुदकं च, उपरितने [च] त्रिभागे उदकं भणितं तीर्थकरगणधरैः। तथा चोक्तं जीवाभिगमे- ‘हेट्टिल्ले तिभागे वाऊकाए संचिट्ठइ, मज्झिल्ले तिभागे वाउक्काए आउक्काए य संचिट्ठइ, उवरिल्ले तिभागे आउक्काए संचिट्ठई' इति । तत्र जगत्स्वाभाव्यादेव समकालं प्रतिनियते कालविभागे सर्वेष्वपि पातालकलशेषु प्रत्येकं प्रथमे द्वितीये च विभागे बहवोऽन्ये उदारा वायवः संमूर्च्छन्ति चलन्ति क्षुभ्यन्ते तथा परिणमन्ति येनोर्ध्वमुदकं तैरुच्छाल्यते । उक्तं च- तेसिं खुड्डापायालाणं महापायालाणं च हिडिल्लमज्झिल्लेसु तिभागेसु बहवे उराला वाया संसेयंति संमुच्छंति चलंति खुब्भतिं तं तं भावं परिणमंति जेहि तं उदगं उर्ल्ड वमिज्जइ [ ] इति । ततः प्रथमद्वितीयेषु त्रिभागेषु वायुः संक्षुब्धः सन् ऊर्ध्वमुदकं वमयति निःसारयति, तेन चोर्ध्वं निःसार्यमाणेन जलनिधिः क्षुभितः सन् परिवर्धते, परिसंस्थिते उपशमं गते पुनः पवने पुनरप्युदकं तदेव स्वंस्थानमाश्रयते, भूयोऽपि कलशेषु मध्ये प्रविशतीत्यर्थः, तेन कारणेनानुक्रमेणैव परिपाट्यैव उदधिर्वर्धते परिहीयते [च] । अहोरात्रमध्ये च द्विः वायवः क्षुभ्यन्ते, तेन प्रत्यहोरात्रं द्वौ वारौ वर्धते हीयते [च] समुद्रः। उक्तं च- लवणे णं भंते समुद्दे तीसाए मुहत्तेणं कइखुत्तो अरेगं वड्डइ वा हायइ वा ? गोयमा! दुखुत्तो अइरेगं वडइ वा हायइ वा । से केणटेणं एवं वुच्चइ दुखुत्तो अइरेगं वड्डइ वा हायइ वा? गोयमा ! उडे उव्वमंतेसु पायालेसु वडइ, आपूरितेसु पायालेसु हायइ, से एएणटेणं गोयमा ! एवं वुच्चइ दुक्खुत्तो अइरेगं वडइ वा हायइ वा [ ]। अत्र आपूरितेसु त्ति परिसंस्थिते पवने जलेनापूर्यमाणेषु कलशेषु, शेषं सुगमम्, नवरं पूर्णमास्यादिषु तिथिषु अतिरेकेण वायवः क्षोभमुपगच्छन्ति, तेनातिरेकतरेण तासु तिथिषु वर्धत इति ।।२।१४-१६।। सम्प्रति लवणसमुद्रशिखावक्तव्यतामाह- दसजोयणसहस्सा, लवणसिहा चक्कवालओ रुंदा। सोलस सहस्स उच्चा, सहस्समेगं च ओगाढा ॥२॥१७॥ व्या० अभ्यन्तरतो बाह्यतश्च पञ्चनवतिपञ्चनवतियोजनसहस्राणि परित्यज्य मध्यभागे लवणसमुद्रस्य शिखा वर्तते, सा च चक्रवालतो रथचक्राकारेण रुन्दा विस्तीर्णा दश योजनसहस्राणि, तथा भूतले समजलपट्टादूर्ध्वमुच्चा षोडश योजनसहस्राणि, सहस्रमेकं योजनानामवगाढा भूमौ प्रविष्टा ॥२॥१७॥ देसूणमद्धजोयण लवणसिहोवरि दगं दुवे काला । अइरेगं अइरेगं, परिवड्डइ हायए वावि ॥२॥१८॥ व्या० अनन्तरोक्ताया लवणसमुद्रशिखाया उपरि देशोनमर्धयोजनं किञ्चिन्यूने द्वे गव्यूते द्वौ कालौ अहोरात्रमध्ये द्वौ वारौ उदकमतिरेकमतिरेकं परिवर्धते हीयते च पातालकलशगतवायुक्षोभे वर्धते, तदुपशान्तौ च हीयते इत्यर्थः ॥२।१८।। सम्प्रति वेलन्धरवक्तव्यतामाह- अभिंतरियं वेलं, धरंति लवणोदहिस्स नागाणं । बायालीस Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy