________________
प्रथमं परिशिष्टम्- टिप्पनानि सहस्सा, दुसत्तरि सहस्स बाहिरियं ॥२॥१९॥ सटुिं नागसहस्सा, धरंति अग्गोदयं समुदस्स। वेलंधरआवासा, लवणे चाउद्दिसिं चउरो ॥२॥२०॥ व्या० लवणसमुद्रस्याभ्यन्तरिका जम्बूद्वीपाभिमुखां वेलां शिखोपरिजलं शिखां च अर्वाक् प्रविशन्तीं धरन्ति वारयन्ति नागानां नागकुमाराणां भवनपतिनिकायान्तर्वर्तिनां द्वाचत्वारिंशत्सहस्राणि, बाह्यां धातकीखण्डद्वीपाभिमुखां वेलां धातकीखण्डद्वीपमध्ये प्रविशन्तीं वारयन्ति नागानां द्वासप्ततिसहस्राणि, तथा षष्टिनागसहस्राणि अग्रोदकं देशोनयोजनार्धजलादुपरि वर्धमानं जलं समुद्रस्य लवणसमुद्रस्य वारयन्ति । एवं सर्वसङ्ख्या वेलन्धरदेवानामेकं लक्षं चतुःसप्ततिसहस्राणि भवन्ति । उक्तं च- लवणस्स णं भंते समुद्दस्स केवइया नागसहस्सा अभिंतरियं वेलं धरंति ? केवड्या नागसहस्सा बाहिरियं वेलं धरंति ? केवडया नागसहस्सा अग्गोदगं धरंति ? गोयमा ! लवणस्स णं समुदस्स बायालीसं नागसहस्सा अभिंतरियं वेलं धरंति, बावत्तरि नागसहस्सा बाहिरियं वेलं धरंति, सट्ठि नागसहस्सा अग्गोदगं धरंति । एवमेव सपुव्वावरेण लवणे समहे एगसयसाहस्सिया चउहत्तरं च नागसहस्सा भवंतीति मक्खायं [ ] । एतेषां च वेलन्धरदेवानामावासा आश्रयभूताः पर्वता लवणसमुद्रे पूर्वादिषु चतसृषु दिक्षु द्विचत्वारिंशद्विचत्वारिंशद्योजनसहस्राण्यवगाह्यात्रान्तरे प्रत्येकमेकैकभावेन चत्वारः चतुःसङ्ख्या वेदितव्याः ॥२।१९२०॥" - बृहत्क्षेत्र मलय० ।
[पृ०३८८] “सम्प्रति तेषामावासपर्वतानामावासपर्वताधिपतीनां च नागराजानां नामान्याहपुव्वाइं अणुक्कमसो, गोत्थुभ दगभास संख दगसीमा । गोत्थुभ सिवए संखे, मणोसिले नागरायाणो ॥२॥२१॥ व्या० पूर्वाद्यनुक्रमशः पूर्वाद्यनुक्रमेण तेषामावासपर्वतानाममूनि नामानि, तद्यथा- जम्बूद्वीपवेदिकायाः परतः पूर्वस्यां दिशि द्विचत्वारिंशद्योजनसहस्राणि लवणसमुद्रमवगाह्यात्रान्तरे यः स्थित आवासपर्वतः स गोस्तूपो गोस्तूपनामा, यतस्तत्र तासु तासु क्षुल्लवापीषु सरस्सु सर:पङ्क्तिषु बहूनि शतपत्राणि सहस्रपत्राणि वा गोस्तूपाकाराणि, गोस्तूपनामा च देवस्तत्र परिवसति, तेन स गोस्तूप उच्यते, दक्षिणस्यां तावत्प्रमाणमेव लवणसमुद्रमवगाह्य यः स्थित आवासपर्वतः स दकभासः सुविशुद्धाङ्करत्नमयतया सर्वासु दिक्षु विदिक्षु चाष्टासु योजनेषु मध्ये स्वप्रभाभिर्दकमुदकं भासयति द्योतयतीति दकभासः । उक्तं च- से केणटेणं भंते एवं वुच्चइ दगभासे आवासपव्वए ? गोयमा! दगभासे णं आवासपव्वए अट्ठजोयणिए खित्ते सव्वओ समंता दगउ भासेइ जाव पभासे [ ] इत्यादि। पश्चिमायां दिशि तावन्तं लवणसमुद्रमवगाह्य यः स्थित आवासपर्वतः स शङ्खनामा, तत्र हि वापीषु सरस्सु सरः पङ्क्तिषु बहूनि शतपत्राणि सहस्रपत्राणि वा शङ्खवर्णानि, शङ्खनामा देवस्तत्राधिपत्यं परिपालयति, तेन स शखनामा । यः पुनरुत्तरस्यां दिशि द्विचत्वारिंशद्योजनसहस्राण्यवगाह्यावस्थित आवासपर्वतः स दकसीमा, तत्र हि शीतायाः शीतोदायाश्च महानद्याः श्रोतांसि प्रतिगत्य प्रतिगत्य प्रतिहतानि निवर्तन्ते, तेन शीताशीतोदयोरुदकानां सीमाकारीति दकसीमेत्यभिधीयते । उक्तं हि- से केणटेणं भंते एवं वुच्चइ दगसीमे आवासपव्वए ? गोयमा !
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org