SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ प्रथमं परिशिष्टम्- टिप्पनानि ४३ वडवामुखनामा, दक्षिणस्यां केयूपः, अपरस्यां यूपः, उत्तरस्यामीश्वरः, एते चत्वारोऽपि सर्ववज्रमयाः सर्वात्मना वज्रमयाः, तेषां च वज्रमयानां कुड्यानि ठिक्करिकाः सर्वत्र बाहल्यमधिकृत्य दशशतिकानि दशयोजनशतप्रमाणानि । उक्तं च- तेसिं महापायालाणं कूडा सव्वत्थ समा दसजोयणसयबाहल्ला पन्नत्ता [ ] इति ॥२५॥” - बृहत्क्षेत्र० मलय० । [पृ०३८७] “जोयणसहस्सदसगं, मूले उवरिं च होति विच्छिन्ना । मज्झे य सयसहस्सं, तत्तियमेत्तं च ओगाढा ॥२॥६॥ व्या० चत्वारोऽपि महापातालकलशा मूले बुध्ने उपरि मुखे प्रत्येक योजनसहस्रदशकं दश योजनसहस्राणि १०००० विस्तीर्णा भवन्ति, मध्ये उदरप्रदेशे पुनः शतसहस्रं योजनलक्षं विस्तीर्णाः, तथा तावन्मानं योजनलक्षमात्रमवगाढा भूमौ प्रविष्टाः ॥२।६।। ___ साम्प्रतमेतेषां पातालकलशानामधिपतीन् देवानाह- पलिओवमट्ठिइया एएसिं अहिवई सुरा इणमो। काले य महाकाले, वेलंब पभंजणे चेव ॥२॥११॥ व्या० एतेषां पातालकलशानामधिपतयः सुराः पल्योपमस्थितिका महर्द्धय इमे एतन्नामानः, तद्यथा- वडवामुखकलशाधिपतिः कालः, केयूपकलशाधिपतिर्महाकालः, यूपकलशाधिपतिर्वेलम्बः, ईश्वरकलशाधिपतिः प्रभञ्जनः ॥२॥११॥ सम्प्रति लघुपातालकलशवक्तव्यतामाह- अन्नेऽवि य पायाला, खुड्डालिंजरसंठिया लवणे। अट्ठ सया चुलसीया, सत्त सहस्सा य सव्वे वि ॥२॥१२॥' व्या० लवणे समुद्रे तत्र तत्र प्रदेशे बहवोऽन्येऽपि क्षुल्ला लघवः पातालाः पातालकलशाः क्षुल्लालिंजरसंस्थिता लघुपिहडकसंस्थानसंस्थिताः सन्ति । उक्तं च- अदुत्तरं च णं गोयमा लवणे समुद्दे तत्थ तत्थ देसे तहिं तहिं खुड्डालिंजरसंठाणसंठिया खुड्डा पायालकलसा पन्नत्ता [ ] इति । ते च सर्वेऽपि सर्वसङ्ख्यया सप्त सहस्राणि अष्टौ शतानि चतुरशीत्यधिकानि ७८८४। एते च लघुपातालकलशाः प्रत्येकमर्धपल्योपमस्थितिकैर्देवैः परिगृहीताः ।।२।१२॥ सम्प्रत्येतेषां प्रमाणमाह- जोयणसयवित्थिन्ना, मूलुवरिं दस सयाणि मज्झम्मि । ओगाढा य सहस्सं, दसजोयणिया य सिं कूडा ॥२॥१३॥ व्या० सर्वेऽपि लघुपातालकलशा मूले बुध्ने उपरि मुखे प्रत्येकं योजनशतं विस्तीर्णाः, मध्ये मध्यभागे जठरप्रदेशे दश शतानि योजनदशशतानि विस्तीर्णाः, तथाऽवगाढा भूमौ प्रविष्टाः सहस्रं योजनसहस्रम्, तथा सिं एतेषां लघुपातालकलशानां कुड्यानि ठिक्करिका बाहल्यमधिकृत्य दशयोजनकानि दशयोजनप्रमाणानि ॥२॥१३॥ सम्प्रति गुरुलघुपातालकलशानां वाय्वादिविभागमाह- पायालाण विभागा, सव्वाण वि तिन्नि तिन्नि विन्नेया । हिट्ठिमभागे वाऊ, मज्झे वाऊ य उदगं च ॥२॥१४॥ उवरिं उदगं भणियं, पढमगबीएसु वाउ संखुभिओ । उहूं वमेइ उदगं, परिवड्डइ जलनिही खुहिओ ॥२॥१५॥ परिसंठियम्मि पवणे, पुणरवि उदगं तमेव सं ठाणं । वड्डेइ तेण उदही, परिहायइ अणुक्कमेणं च ॥२॥१६॥ व्या० सर्वेषामपि गुरूणां लघूनां च पातालकलशानां त्रयस्त्रयो विभागा भवन्ति । तद्यथा- अधस्तनो मध्यम उपरितनश्च । तत्र महापातालकलशानामेकैकस्त्रिभागस्त्रय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy