SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ ४२ प्रथमं परिशिष्टम्- टिप्पनानि पूर्वोत्तरादिषु विदिक्षु प्रत्येकं सप्त सप्त योजनशतान्यतिक्रम्यात्रान्तरे सप्तयोजनशतप्रमाणायामविष्कम्भा यथोक्तप्रमाणपद्मवरवेदिका-वनखण्डसमवगूढा अश्वकर्ण-हरिकर्णा-ऽकर्ण-कर्णप्रावरणनामानश्चत्वारो द्वीपाः । तत एतेषामपि अश्वकर्णादीनां चतुर्णा द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिषु विदिक्षु प्रत्येकमष्टावष्टौ योजनशतान्यतिक्रम्यात्रान्तरेऽष्टयोजनशतपरिमाणायामविष्कम्भाः पूवोक्तप्रमाणपद्मवरवेदिकावनखण्डमण्डितपरिसरा उल्कामुख-मेघमुख-विद्युन्मुख-विद्युद्दन्ताभिधानाश्चत्वारो द्वीपाः । ततोऽमीषामप्युल्कामुखादीनां चतुर्णा द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिषु विदिक्षु प्रत्येक नवनवयोजनशतान्यतिक्रम्य [अत्रान्तरे] नवयोजनशतायामविष्कम्भा यथोक्तप्रमाणपद्मवरवेदिकावनखण्डपरिक्षिप्ता घनदन्त-लष्टदन्त-गूढदन्त-शुद्धदन्तनामानश्चत्वारो द्वीपाः । तदेवं क्षुल्लहिमवति सर्वसङ्ख्याऽष्टाविंशतिरन्तरद्वीपा भवन्ति । एवं शिखरिण्यपि द्रष्टव्याः । तथा चाह- एवमेव द्वीपा भवन्ति ॥६२॥ सम्प्रत्येतेष्वेवान्तरद्वीपेषु नरवक्तव्यतामाह- अंतरदीवेसु नरा, धणुसय अट्ठस्सिया सया मुइया । पालंति मिहुणधम्मं, पल्लस्स असंखभागाउ ॥२७३॥ चउसट्ठी पिट्ठकरंडयाण मणुयाण तेसिमाहारो । भत्तस्स चउत्थस्स य, उणसीइ दिणाणि पालणया ॥२।७४॥ व्या० षट्पञ्चाशत्सङ्ख्येष्वन्तरद्वीपेषु नरा मनुष्या अष्टौ धनुःशतानि उच्छ्रिता उच्चाः, तथा सदा सर्वकालं मुदिताः प्रमुदिता रोगशोकाद्युपद्रवलेशस्याप्यभावात्, तेऽपि हि हैमवतादिवास्तव्यमनुष्या इव कल्पद्रुमसंपाद्यभोगोपभोगाः प्रबलपुण्योपचयभाजः, ततो न कोऽपि तेषामपि रोगशोकाद्युपद्रवः संभवति, नवरमत्र कल्पद्रुमफलरसास्वादादि पर्यायानधिकृत्यानन्तगुणहीनं द्रष्टव्यम् । तथा ते नराः पालयन्ति मिथुनधर्मं युगलधार्मिकत्वं हैमवतादिमनुष्यवत्, तेषां च नराणामायुः पल्यस्य पल्योपमस्यासङ्ख्येयो भागः, तथा पृष्ठकरण्डकानां चतुःषष्टिर्मनुष्याणां भवति, आहारोऽपि च तेषां चतुर्थभक्तस्यातिक्रमे एकोपवासातिक्रमे इत्यर्थः, तेषां च मनुष्याणां स्वापत्यपालना एकोनाशीतिदिनानि ॥७३-७४॥" - बृहत्क्षेत्र० मलय० । [पृ०३८६] “पातालकलशवक्तव्यतामाह- पणनउइ सहस्साई, ओगाहित्ता चउद्दिसिं लवणं। चउरोऽलिंजरसंठाणसंठिया हुंति पायाला ॥२॥४॥ व्या० मन्दरपर्वतस्य चतसृषु पूर्वादिषु दिक्षु प्रत्येकं जम्बूद्वीपवेदिकातः परतः पञ्चनवतिं पञ्चनवतिं योजनसहस्राणि लवणसमुद्रमवगाह्यात्रान्तरे चतसृषु पूर्वादिषु दिक्षु प्रत्येकमेकैकभावेन चत्वारः पातालाः पदैकदेशे पदसमुदायोपचारात् पातालकलशाः, ते च किंसंस्थाना इत्याह- अलिञ्जरसंस्थानसंस्थिता महापिहडसंस्थानसंस्थिताः । उक्तं च- जंबूहीवे णं दीवे मंदरस्स पव्वयस्स चउद्दिसिं लवणसमुदं पंचाणउइ पंचाणउइ जोयणसहस्साइं ओगाहित्ता एत्थ णं चत्तारि महइमहालिया महालिंजरसंठाणसंठिया महापायालकलसा पन्नत्ता [ ] इति ॥२४॥ सम्प्रत्येतेषां नामादिकमाह- वलयामुहे केऊए, जुयए तह ईसरे य बोधव्वे । सव्वरयणामया णं, कुड्डा एएसि दससइया ॥२५॥ व्या० मेरोः पूर्वस्यां दिशि पातालकलशो वडवामुखो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy