________________
प्रथमं परिशिष्टम्- टिप्पनानि चउसयपमाणा ॥२॥५७॥ चत्तारंतरदीवा, हयगयगोकन्नसक्कुलीकन्ना । एवं पंच सयाई, छस्सत्त य अट्ठ नव चेव ॥२॥५८॥ ओगाहिऊण लवणं, विक्खंभोगाहसरिसया भणिया । चउरो चउरो दीवा, इमेहि नामेहि नायव्वा ॥२॥५९॥ व्या० एतेषामनन्तरोक्तानां चतुर्णा द्वीपानां परतः प्रत्येकं चत्वारि चत्वारि योजनशतानि लवणसमुद्रमवगाह्यात्रान्तरे सपडिदिसिं ति स्वप्रतिदिशि स्वस्वविदिशि चत्वारश्चतुर्योजनशतप्रमाणायामविष्कम्भा अन्तरद्वीपाः, ते च किंनामान इत्याहहयगयगोकन्नसक्कुलीकन्ना इति, अत्र कर्णशब्दो हयगजगोशब्दानां प्रत्येकमभिसंबध्यते हयको गजकर्णो गोकर्णः शष्कुलीकर्ण इति । इयं चात्र भावना- एकोरुकस्य परतो हयकर्णः, आभाषिकस्य परतो गजकर्णः, वैषाणिकस्य परतो गोकर्णः, लालिकस्य परतः शष्कुलीकर्ण इति । एते च हयकर्णादय एकोरुकादीनामीशानादिकोणाश्रयेण व्यवस्थिताः, ते च जम्बूद्वीपवेदिकान्तादप्यारभ्य चतुर्भिर्योजनशतैर्व्यवस्थिताः । एवं येषां येषां चतुर्णामन्तरद्वीपानां पूर्वेभ्यः पूर्वेभ्यश्चतुर्यो द्वीपेभ्यो यावत्प्रमाणमन्तरं तेषां द्वीपानां जम्बूद्वीपवेदिकान्तादपि तावत्प्रमाणमन्तरमवसेयम् ।
__ शेषानन्तरद्वीपानतिदेशत आह- एवं पूर्वोक्तेन प्रकारेण पञ्च षट् सप्त अष्टौ नव च योजनशतानि लवणसमुद्रमवगाह्य प्रत्येकं चत्वारश्चत्वारो द्वीपा भणितास्तीर्थकरगणधरैः । कथंभूता भणिता इत्याहविष्कम्भावगाहसदृशा विष्कम्भे विष्कम्भविषयेऽवगाहसमानाः । किमुक्तं भवति ? ये चत्वारो द्वीपा: पूर्वानन्तरद्वीपचतुष्टयापेक्षया यावत्प्रमाणं लवणसमुद्रमवगाह्य स्थितास्ते विष्कम्भतोऽपि तावत्प्रमाणाः, तद्यथा- ये पूर्वस्मात् द्वीपचतुष्टयात् परतः पञ्च योजनशतानि लवणसमुद्रमवगाह्य स्थितास्ते पञ्चयोजनशतायामविष्कम्भाः । ये च तेभ्योऽपि परतः षट् योजनशतानि लवणसमुद्रमवगाह्य स्थितास्ते षड्योजनशतायामविष्कम्भा इत्यादि । ते चैभिर्वक्ष्यमाणस्वरूपैर्नामभिर्ज्ञातव्याः ॥५७-५९।। ___ आयंसमिंढगमुहा, अओमुहा गोमुहा य चउरो य । आसमुहा हत्थिमुहा,सीहमुहा चेव वग्यमुहा ॥२।६०॥ तत्तो य आसकन्ना, हरिकन्नाकन्नकन्नपाउरणा । उक्कमुहा मेहमुहा, विज्जुमुहा विज्जुदंता य ॥२।६१॥ घणदंत लठ्ठदंता, निगूढदंता य सुद्धदंता य । वासहरे सिहरम्मि वि, एवं चिय अट्ठवीसा वि ॥२॥६२॥ व्या० अमूनि नामानि सुगमानि । नवरमियमत्र भावना- हयकर्णादीनां चतुर्णा द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिषु विदिक्षु प्रत्येकं पञ्च पञ्च योजनशतानि व्यतिक्रम्य पञ्चयोजनशतायामविष्कम्भाः पूर्वोक्तप्रमाणपद्मवरवेदिकावनखण्डमण्डितबाह्यप्रदेशा आदर्शमुखमेण्ढमुखा-ऽयोमुख-गोमुखनामानश्चत्वारो द्वीपाः, तद्यथाहयकर्णस्य परत आदर्शमुखः, गजकर्णस्य परतो मेण्ढमुखः, गोकर्णस्य परतोऽयोमुखः, शुष्कुलीकर्णस्य परतो गोमुख इति । एवमग्रेऽपि भावना कार्या । तत एतेषामप्यादर्शमुखादीनां चतुर्णा द्वीपानां परतो भूयोऽपि यथाक्रमं पूर्वोत्तरादिषु विदिक्षु प्रत्येकं षट् षड् योजनशतान्यतिक्रम्यात्रान्तरे षड्योजनशतायामविष्कम्भा यथोक्तप्रमाणपद्मवरवेदिकावनखण्डमण्डितपरिसरा अश्वमुख-हस्तिमुखसिंहमुख-व्याघ्रमुखनामानश्चत्वारो द्वीपाः । तत एतेषामप्यश्वमुखादीनां चतुर्णा द्वीपानां परतो यथाक्रम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org