________________
प्रथमं परिशिष्टम्- टिप्पनानि देव्या सह वर्तत इति न देवीमात्रप्रतिपादने विशेषणं फलवदिति सामर्थ्यात् प्रत्येकं चतसृभिरग्रमहिषीभिः सपरिवाराभिर्देवीभिः सह वर्तन्त इति द्रष्टव्यम्, तथा प्रवचने प्रतिपादनात् । किंनामानस्त इत्याहद्वारनामान: द्वाराणामिव नामानि येषां ते तथा, किमुक्तं भवति ? यान्येव द्वाराणं विजयादीनि नामानि तान्येव यथाक्रमं द्वाराधिपतीनां देवानामपि देवाभिधानवशतो द्वाराणामभिधानप्रवृत्तेः, तथाहि- यो यः पूर्वद्वाराधिपतिरुत्पद्यते देवः स स तत्संबन्धिभिरिन्द्रसामानिकादिभिर्देवैर्विजयो विजय इत्याहूयते, तत्स्थितिप्रतिपादके कल्पपुस्तके तथाऽभिधानात्, ततोऽस्य द्वारस्य विजयनामा देवोऽधिपतिरिति द्वारमपि विजयमित्यभिधीयते । एवं शेषाण्यपि द्वारनामानि भावनीयानि । न चैतदनार्षम्, यत उक्तं जीवाभिगमे- “से केणढेणं भंते एवं वुच्चइ विजयद्दारे इति ? गोयमा ! विजए णं दारे विजयनामं देवे महिड्डीए महज्जुइए महाबले महायसे महासोक्खे पलिओवमट्टिईए परिवसति, से णं तत्थ चउण्हं सामाणियसाहस्सीणं चउण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं सोलसण्हं आयरक्खियसहस्सीणं विजयस्स दारस्स विजयाए रायहाणीए अन्नेसिं च बहूणं विजयरायहाणिवत्थव्वाणं देवाणं देवीए य आहेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावच्चं कारेमाणे पालेमाणे जाव दिव्वाइं भोगभोगाइं भुंजमाणे विहरइ, से एएणतुणं गोयमा ! एवं वुच्चइ विजयद्दारे” इति । एवं शेषेष्वपि द्वारेषु प्रश्ननिर्वचनरूपा आलापका वेदितव्याः । तथा महती ऋद्धिर्येषां ते महर्द्धिकाः, महर्द्धिकत्वं य यथोक्तसङ्ख्याकानिन्द्रसामानिकादीन् देवान् विजयादीनि द्वाराणि विजयादिकाश्च नगरीः प्रति स्वामित्वभावात् ॥१९॥" - बृहत्क्षेत्र० मलय०।
[पृ०३८५] “सम्प्रत्यन्तरद्वीपवक्तव्यतामाह- चुल्लहिमवंत पुव्वावरेण विदिसासु सागरं तिसए। गंतूणंतरदीवा, तिन्नि सए होंति विच्छिन्ना ॥२॥५५॥ व्या० क्षुल्लहिमवति पूर्वस्यामपरस्यां च दिशि वेदिकान्तात् परतः प्रत्येकं द्वे द्वे दंष्ट्रे विदिगभिमुखे विनिर्गते, तद्यथा- पूर्वस्यां दिश्येका उत्तरपूर्वाभिमुखी द्वितीया दक्षिणपूर्वाभिमुखी, अपरस्यां दिश्येका दक्षिणापराभिमुखी अपराऽपरोत्तराभिमुखी, एवंभूतासु चतसृषु विदिगभिमुखीषु दंष्ट्रासु प्रत्येकं त्रीणि त्रीणि योजनशतानि सागरं लवणसमुद्रं गत्वाऽतिक्रम्यात्रान्तरे विदिक्षु प्रत्येकमेकैकभावेन चत्वारोऽन्तरद्वीपा भवन्ति, ते च त्रीणि योजनशतानि प्रत्येकं विस्तीर्णाः, प्रत्येकमेव च पञ्चधनुःशतप्रमाणविष्कम्भा द्विगव्यूतोच्छ्रितया पद्मवरवेदिकया वनखण्डेन च सर्वतः परिक्षिप्ताः ॥५५॥ ___अउणापन्न नव सए, किंचूणे परिहि तेसिमे नामा। एगोरुय आभासिय, वेसाणा चेव लंगूलो ॥२॥५६॥ व्या० एकोनपञ्चाशानि एकोनपञ्चाशदधिकानि नव शतानि ९४९ किञ्चिदूनानि तेषां चतुर्णामन्तरद्वीपानां प्रत्येकं परिधिः । नामानि पुनरिमानि, तद्यथा- उत्तरपूर्वस्यामेकोरुकः, दक्षिणपूर्वस्यामाभाषिकः, दक्षिणापरस्यां वैषाणिकः, अपरोत्तरस्यां लालिकः। एवं द्वितीयादिचतुष्केष्वप्ययं क्रमो भावनीयः ॥२॥५६॥
एएसिं दीवाणं, परओ चत्तारि जोयणसयाइं । ओगाहिऊण लवणं, सपडिदिसिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org