________________
३२
प्रथमं परिशिष्टम्- टिप्पनानि ४९४ चक्रवालतो रुन्दं विस्तीर्णं पण्डकवनम्, किमुक्तं भवति ? चूलिकाया बहिरेकैकस्मिन् पार्श्वे एतावत्प्रमाणं पण्डकवनम्, तथाहि- सौमनसात् षट्त्रिंशद्योजनसहस्रेषूर्ध्वमतिक्रान्तेषु पण्डकवनम्, मेरौ च मेखलाद्वयाविवक्षया सर्वत्र प्रतियोजनगतैकादशभागपरिहानिः ततोऽत्रापि त्रैराशिककर्मावतारः, तच्चैवं त्रैराशिककर्म- यदि योजनमेकमारुह्योपरि क्षेत्रवृत्तताया अपचय एक एकादशभागो योजनस्य, तत: षट्त्रिंशद्योजनसहस्रारोहणे कोऽपचयः प्राप्यते ? लब्धानि द्वात्रिंशच्छतानि द्विसप्तत्यधिकानि योजनानां ३२७२ अष्टौ चैकादशभागा योजनस्य, । एतत् सौमनससत्काबहिर्विष्कम्भाच्चत्वारि सहस्राणि द्वे शते द्विसप्तत्यधिके योजनानामष्टौ चैकादशभागा योजनस्य ४२७२ । इत्येवंपरिमाणाच्छोध्यते, शोधिते च सति तस्मिन् जातं शेष योजनसहस्रम्, एतावानुपरितले शिरोभागे मन्दरस्य विष्कम्भः । तत्र च बहुमध्यभागे चूला, सा च मूले द्वादशयोजनप्रमाणविष्कम्भा, तस्याः समन्ततः परिक्षेपि पण्डकवनम्, ततः सहस्रात् द्वादशयोजनापगमे शेषाण्यष्टाशीत्यधिकानि नव शतानि तिष्ठन्ति, तेषामधं भवन्ति चत्वारि शतानि चतुर्नवत्यधिकानि ॥४९४॥ सम्प्रति परिधिपरिमाणमाहतस्य पण्डकवनस्य एकत्रिंशद्योजनशतानि द्वाषष्ठ्यधिकानि परिरयः ३१६२ । एतच्च परिरयपरिमाणं प्रागुक्तकरणवशात् स्वयमेवानेतव्यम् ॥३४७॥" - बृहत्क्षेत्र० मलय०।
[पृ०३८३] “चउजोयणविच्छिन्ना, अट्ठेव य जोयणाइ उव्विद्धा । उभओ वि कोसकोसं, कुड्डा बाहल्लओ तेसिं ॥१७॥ व्या० चत्वार्यपि द्वाराणि प्रत्येकं चत्वारि चत्वारि योजनानि विस्तीर्णानि, अष्टावष्टौ च योजनानि उद्विद्धान्युच्चानीत्यर्थः । तथा तेषां द्वाराणां मध्ये एकैकस्य द्वारस्य उभयत उभयोरपि पार्श्वयोर्यदेकैकं कुड्यम्, कुड्ये द्वारशाखापरपर्याये बाहल्यतः पृथुत्वेन क्रोशं क्रोशं भवतः। क्रोशं क्रोशमित्यत्र च “कालाध्वभावदेशं वा कर्म चाकर्मणाम्” [सिद्धहेम० २।२।२३] इति द्वितीया । इह यत एकैकस्य द्वारस्यैकैका द्वारशाखा क्रोशक्रोशप्रमाणपृथुत्वा द्वारं द्वारं च चतुर्योजनविस्तारम्, अतः सामस्त्येनैकैकं द्वारं परिभाव्यमानम् अर्धपञ्चमयोजनप्रमाणपृथुत्वमवसेयम् ॥१७॥ ___ साम्प्रतमेतेषां द्वाराणमधिष्ठातारो ये देवास्तेषां स्वरूपमभिधित्सुराह- पालिओवमट्ठिईया, सुरगणपरिवारिया सदेवीया । एएसु दारनामा, वसंति देवा महड्डीया ॥१९॥ व्या० एतेषु अनन्तरोक्तस्वरूपेषु विजयादिषु द्वारेषु देवा वसन्तीति योगः । कथंभूतास्त इत्याह- पल्योपमस्थितिका: पल्योपमं स्थितिर्येषां ते पल्योपमस्थितिका: पल्योपमप्रमाणायुःस्थितयः इत्यर्थः । तथा सुरगणपरिवारिता इति सुरा देवाः, ते च व्यन्तरा अवगन्तव्याः, तानेव प्रति तेषामाधिपत्यसंभवात्, तेषां गण: समूहः तेन परिवारिताः सुरगणपरिवारिताः, यदिवा सुरगण एव परिवारः सुरगणपरिवारः, स संजातो येषां ते सुरगणपरिवारिताः, तारकादिदर्शनादितप्रत्ययः, ते हि प्रत्येकं चतुर्णामिन्द्रसामानिकदेवसहस्राणां तिसृणां पर्षदां सप्तानामनीकानां सप्तानामनीकाधिपतीनां षोडशानामात्मरक्षकदेवसहस्राणामन्येषामपि स्वस्वविजयाद्यभिधानराजधानीवास्तव्यानां भूयसां वानमन्तराणां देवानां देवीनां चाधिपतय इति भवन्ति ते सुरगणपरिवारिताः । तथा सह देवीभिः वर्तन्ते इति सहदेवीकाः, तत्राल्पीयानपि वानमन्तरो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org