________________
प्रथमं परिशिष्टम् - टिप्पनानि
वक्षस्कारगिरयः सर्वरत्नमयाः सर्वरत्नबहुलाः, तथा यतो यस्यां दिशि वर्षधरगिरिर्वर्षधरपर्वतो निषधो नीलवान् वा तस्यां दिशि तत्समीपे इत्यर्थः, योजनशतमवगाढा योजनशतं भूमौ प्रविष्टाः, चत्वारि योजनशतानि उद्धा उच्चाः, ततो मात्रया परिवर्धमाना यतो यस्यां दिशि सलिले शीताशीतोदे महानद्यौ ततः शीतायाः शीतोदाया वा समीपे इत्यर्थः, पञ्च गव्यूतशतान्यवगाढा: पञ्चविंशं योजनशतं भूमौ प्रविष्टाः, पञ्च योजनशतान्युद्विद्धा उच्चाः, अत एवाश्वस्कन्धनिभा अश्वस्कन्धसंस्थानसंस्थिताः ॥३७१
३७२।
३८
विजयाणं विक्खंभो, बावीस सयाई तेरसहियाइं । पंच सए वक्खारा, पणवीससयं च सलिलाओ ||३७० ||' व्या० विजयानां सर्वेषामपि प्रत्येकं विष्कम्भो विष्कम्भपरिमाणं द्वाविंशतिशतानि त्रयोदशसहितानि किञ्चिदूनत्रयोदशाधिकानि । वक्षस्काराणां वक्षस्कारगिरीणां पञ्च शतानि पञ्चविंशं शतमन्तरनदीनाम् । पंच सए वक्खारा इत्यत्राभिन्ननिर्देशः अभेदात् प्रथमान्तनिर्देशः, परिमाणपरिमाणवतोरभेदोपचारात् ॥३७०||” बृहत्क्षेत्र० मलय० ।
[पृ०३८२] बावीस सहस्साई, पुव्वावरमेरुभद्दसालवणं । अड्डाइज्जसया पुण दाहिणपासम्म उत्तरओ ।। ३१७ ।। व्या० भद्रशालवनं पूर्वापरायतं दक्षिणोत्तरविस्तीर्णं मेरोर्वलयाकारेण परिक्षेपि च । तत्र मेरोः पूर्वस्यामपरस्यां च दिशि प्रत्येकं भद्रशालवनमायामतो द्वाविंशतियोजनसहस्राणि २२०००। दक्षिणपार्श्वे उत्तरपार्श्वे [च] प्रत्येकं विष्कम्भोऽर्धतृतीयानि योजनशतानि २५० ॥३१७॥
-
सम्प्रति नन्दवनवक्तव्यतामाह- पंचेव जोयणसए, उड्डुं गंतूण पंचसयपिहुलं । नंदणवणं सुमेरुं, परिक्खित्ता ठियं रम्मं ॥ ३२७॥ व्या० समतलाद्भूभागात्पञ्च योजनशतान्यूर्ध्वं गत्वाऽत्रान्तरे पञ्चयोजनशतपृथुलं पञ्चयोजनशतप्रमाणविष्कम्भं नन्दनं नाम वनं वलयाकारेण सुमेरुं परिक्षिप्य स्थितम्, तच्चानेकमणिमयकूटवापीमण्डपादिकलिततया रम्यं रमणीयम् ॥ ३२७॥
सम्प्रति सौमनसवनवक्तव्यतामाह - बासट्ठि सहस्साई, पंचेव सयाइं नंदणवणाओ । उड्डुं गंतूण वणं, सोमनसं नंदणसरिच्छं ||३३८ || व्या० नन्दनवनादूर्ध्वं योजनानां द्वाषष्टिसहस्राणि पञ्च शतानि गत्वाऽत्रान्तरे सौमनसं नाम वनम्, तच्च नन्दनवनसदृशम्, यथा नन्दनवनं चक्रवालतया मेरुं परिक्षिप्य स्थितम्, एकैकस्मिंश्च पार्श्वे पञ्चपञ्चयोजनशतविष्कम्भम्, तथा सौमनसवनमपीत्यर्थः ||३३८||”
सम्प्रति पाण्डुकवनवक्तव्यतामाह- सोमणसाओ तीसं, छच्च सहस्से विलग्गिऊण गिरिं । विमलजलकुंडगहणं, हवइ वणं पंडगं सिहरे ॥ ३४६ ॥ | व्या० सौमनसवनादूर्ध्वं षट्त्रिंशत्सहस्राणि गिरिं मेरुगिरिं विलग्योत्प्लुत्यात्रान्तरे शिखररूपे उपरितले पण्डकं नाम वनं भवति, तच्च कथंभूतमित्याहविमलजलकुंडगहणं विमलजलसंपूर्णानि यानि कुण्डानि तैर्गहनम्, किमुक्तं भवति ? स्थाने स्थाने विमलजलसंपूर्णानि तत्र कुण्डानि सन्ति ॥ ३४६ ॥
सम्प्रति तत्रैव पृथुत्वपरिमाणमाह- चत्तारि जोयणसया, चउणउया चक्कवालओ रुंदा । इगतीस जोयणसया, बासट्ठि परिरओ तस्स ॥ ३४७ || व्या० चत्वारि योजनशतानि चतुर्नवत्यधिकानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org