________________
प्रथमं परिशिष्टम्- टिप्पनानि
इत्यादिना तु विशेषलक्षणं त्रिप्रकारम् । तत्र कर्मपरमाणूनां हस्वस्थितिकालतामपहाय दीर्घकालतया व्यवस्थापनमुद्वर्तना । कर्मपरमाणूनामेव दीर्घस्थितिकालतामपहाय हस्वस्थितिकालतया व्यवस्थापनमपवर्तना । यत्पुनः संक्रम्यमाणप्रकृतिस्थितीनां पतद्ग्रहप्रकृतौ नीत्वा निवेशनं तत्प्रकृत्यन्तरनयनम्, स्थितीनां चान्यत्र निवेशनं स्थितियुक्तानां परमाणूनामवसेयम्, स्थितेरन्यत्र नेतुमशक्यत्वात् । इदं च विशेषलक्षणं सामान्यलक्षणे सत्येवावगन्तव्यम्, न सर्वथा तदपवादेन, तेन मूलप्रकृतीनां परस्परं संक्रमप्रतिषेधात्, तासामन्यप्रकृत्यन्तरनयनलक्षणः स्थितिसंक्रमो न भवति, किं तु द्वावेव उद्वर्तनापर्वतनालक्षणौ संक्रमौ । उत्तरप्रकृतीनां तु त्रयोऽपि संक्रमा द्रष्टव्याः ||२|२८|| कृता स्पर्धकप्ररूपणा, संप्रति विशेषलक्षणप्ररूपणार्थमाह- तत्थट्ठपयं उव्वट्टिया व ओट्टिया अभागा । अणुभागसंकमो एस अन्नपगइं निया वावि || २|४६ || तत्त् तत्रानुभागसंक्रमेऽर्थपदं याथात्म्यनिर्धारणमिदं यदुत उद्वर्तिताः प्रभूतीकृता यद्वाऽपवर्तिता स्वीकृ अथवाऽन्यां प्रकृतिं नीता अन्यप्रकृतिस्वभावेन परिणमिताः अविभागा अनुभागाः । एष सर्वोऽप्यनुभागसंक्रमः । तत्र मूलप्रकृतीनामुद्वर्तनापवर्तनारूपौ द्वावेव संक्रमौ नान्यप्रकृतिनयनरूपः संक्रमः, तासां परस्परं संक्रमाभावात् । उत्तरप्रकृतीनां तु त्रयोऽपि संक्रमाः || २|४६ ||
जं दलियमन्नपगइं निज्जइ सो संकमो पएसस्स ||२|६० || जं ति यत्संक्रमप्रायोग्यं दलिकं कर्मद्रव्यम् अन्यप्रकृतिं नीयते अन्यप्रकृतिरूपतया परिणम्यते स प्रदेशसंक्रमः ॥ ६० ॥
.... संकमणं पि निहत्तीए नत्थि सेसाण वियरस्स || ६ | १ || इदम्- संक्रमणमपि परप्रकृतिसंक्रमणमपि, अपि शब्दादुदीरणादीन्यपि निधत्तौ सत्यां न भवन्ति, उद्वर्तनाऽपवर्तने पुनर्भवत एव । इतरस्यां निकाचनायां शेषेऽपि उद्वर्तनाऽपवर्तनेऽपि न भवतः । सकलकरणायोग्यं निकाचितमित्यर्थः ॥६॥१॥ कर्मप्रकृति मलय० ॥
[पृ०३८१] 'पंच सए बाणउए, सोलससहस्स दो कलाओ य | विजयावक्खाराणं, अंतरनड्वणमुहाणं च || ३६४ || व्या० षोडश सहस्राणि पञ्च शतानि द्विनवत्यधिकानि योजनानां द्वे च कले योजनस्यैकोनविंशतिभागरूपे १६५९२ एतावान् विजयानां वक्षस्कारगिरीणामन्तरनदीनां वनमुखानां चायामः, तथाहि - महाविदेहविष्कम्भस्त्रयस्त्रिंशत्सहस्राणि षट् शतानि चतुरशीत्यधिक योजनानां चत्वारश्चैकोनविंशतिभागा योजनस्य ३३६८४ । एतेभ्यो नदीगतानि पञ्च योजनशतान्यपनीयन्ते, तेषु चापगतेषु जातानि शेषाणि त्रयस्त्रिंशत्सहस्राणि शतमेकं चतुरशीत्यधिकं योजनानां चत्वारश्चैकोनविंशतिभागा योजनस्य ३३१८४ । तेषामर्थं क्रियते, लब्धानि पोडश सहस्राणि पञ्च शतानि द्विनवत्यधिकानि योजनानां द्वे च कले १६५९२ १९ ॥३६४॥
सम्प्रति वक्षस्कारगिरिवक्तव्यतामाह- जत्तो वासहरगिरी, तत्तो जोयणसयं समोगाढा । चत्तारि जोयणसए, उव्विद्धा सव्वरयणमया || ३७१ ।। जत्तो पुण सलिलाओ, तत्तो पंचसयगाउओगाढा । पंचेव जोयणसए, उव्विद्धा आसखंधनिभा ||३७२ || व्या० सर्वेऽपि
Jain Education International
३७
For Private & Personal Use Only
www.jainelibrary.org