________________
प्रथमं परिशिष्टम्- टिप्पनानि जब्बंधणपरिणओ पओगेणं । पगयंतरत्थदलियं परिणमयइ तयणुभावे जं ॥२॥१॥ सो संकमु त्ति इह जीवो यद्बन्धनपरिणतो यस्याः प्रकृतेर्बन्धनेन बन्धकत्वेन परिणतः । अनेन किलेदमावेद्यतेयदि जीवस्तथारूपबन्धनपरिणामपरिणतो भवति ततः कर्मवर्गणापुद्गला अपि कर्मरूपतया परिणमन्ते, नान्यथा । उक्तं च- जीवपरिणामहेऊ कम्मत्ता पुग्गला परिणमंति । पोग्गलकम्मनिमित्तं जीवो वि तहेव परिणमइ ॥१॥ [ ] अस्या अक्षरगमनिका-जीवस्य सत्कात् परिणामादध्यवसायाद्धेतोः, जीवपरिणामं हेतुमाश्रित्येत्यर्थः । कर्मवर्गणान्तःपातिनो जीवस्वप्रदेशावगाढाः पुद्गलाः कर्मरूपतया ज्ञानावरणीयादिकर्मरूपतया परिणमन्ते । अथ जीवस्यापि तथारूप: परिणामः कस्माद् भवतीति चेदुच्यते- 'पुग्गलेत्यादि' पुद्गलरूपं यत् प्राग्बद्धं कर्म विपाकोदयप्राप्तं तन्निमित्तम्, तत्सामर्थ्यादिति भावः । जीवोऽपि तथैव स्वप्रदेशावगाढकर्मवर्गणान्तःपातिपुद्गलकर्मरूपतापत्तिहेतुतयैव परिणमत इति ॥ पओगेणं ति प्रयोगेण संक्लेशसंज्ञितेन विसोधिसंज्ञितेन वा वीर्यविशेषेण । विवक्षितायाः प्रकृतेरन्या प्रकृतिः प्रकृत्यन्तरं विवक्षितबध्यमानप्रकृतिव्यतिरिक्ताऽन्या प्रकृतिरित्यर्थः । तत्रस्थं दलिकं तदनुभावेन बध्यमानप्रकृतिस्वभावेन यत्परिणमयति परिणमनमापादयति स संक्रम उच्यते । एतदुक्तं भवतिबध्यमानासु प्रकृतिषु मध्येऽबध्यमानप्रकृतिदलिकं प्रक्षिप्य बध्यमानप्रकृतिरूपतया यत्तस्य परिणमनम्, यच्च वा बध्यमानानां प्रकृतीनां दलिकरूपस्येतरेतररूपतया परिणमनं तत्सर्वं संक्रम इत्युच्यते । तत्र बध्यमानप्रकतिष्वबध्यमानप्रकृतीनां संक्रमो यथा- सातवेदनीये बध्यमानेऽसातवेदनीयस्य. ऊच्चैर्गोत्रे वा नीचैर्गोत्रस्येत्यादि । बध्यमानानां परस्परं संक्रमो यथा-बध्यमाने मतिज्ञानावरणीये बध्यमानमेव श्रुतज्ञानावरणं संक्रमयति, श्रुतज्ञानावरणे वा बध्यमाने बध्यमानमेव मतिज्ञानावरणीयमित्यादि । इह यत्प्रकृतिबन्धकत्वेन परिणत आत्मा तदनुभावेन प्रकृत्यन्तरस्थं दलिकं यत्परिणमयति स संक्रम इत्युक्तम् ॥२।१॥
तदेवमुक्तः प्रकृतिसंक्रमः । संप्रति स्थितिसंक्रमाभिधानावसरः । तत्र चैतेऽर्थाधिकाराः । तद्यथाभेदो विशेषलक्षणं उत्कृष्टस्थितिसंक्रमणप्रमाणं जघन्यस्थितिसंक्रमप्रमाणं साद्यादिप्ररूपणा स्वामित्वप्ररूपणा चेति । तत्र भेद- विशेषलक्षणयोः प्रतिप्रादनार्थमाह- ठिइसंकमो त्ति वुच्चइ मूलुत्तरपगइओ य जा हि ठिई । उव्वट्टिया व ओवट्टिया व पगई निया वऽण्णं ॥२॥२८॥ ठिइ त्ति इह मूलत्तरपगइओ इत्यत्र षष्ठ्यर्थे पञ्चमी । ततोऽयमर्थः- हि स्फुटं या स्थितिर्मूलप्रकृतीनामष्टसंख्यानामुत्तरप्रकृतीनां वाऽष्टपञ्चाशदधिकशतसंख्यानां संबन्धिनी उद्वर्तिता ह्रस्वीभूता सती दीर्घाकृता, अपवर्तिता वा दीर्घाभूता सती ह्रस्वीकृता, अन्यां वा प्रकृतिं नीता पतद्ग्रहप्रकृतिस्थितिषु मध्ये नीत्वा निवेशिता स स्थितिसंक्रम उच्यते। एतदुक्तं भवति- द्विविधः स्थितिसंक्रमो मूलप्रकृतिस्थितिसंक्रम उत्तरप्रकृतिस्थितिसंक्रमश्च । तत्र मूलप्रकृतिस्थितिसंक्रमोऽष्टप्रकारः । तद्यथा- ज्ञानावरणीयस्य यावदन्तरायस्य । उत्तरप्रकृतिस्थितिसंक्रमोऽष्टपंचाशदधिकशतधा । तद्यथा- मतिज्ञानावरणीयस्य श्रुतज्ञानावरणीयस्य यावद्वीर्यान्तरायस्य । तदेवं मूलुत्तरपगईओ' इत्यनेन भेद उक्तः । उव्वटिया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org