________________
प्रथमं परिशिष्टम्- टिप्पनानि अधस्तान्मल्लकमूलसंस्थितः-शरावबुध्नसंस्थानः, समजलान्तस्योपरि सप्तदश योजनशतान्येकविंशत्यधिकानि यावद्वलयसंस्थानत्वात, स्थापना च- ॥६॥५॥३॥" - भगवती० अभयदेवीया वत्तिः॥
[पृ० ३७२] 'जल-रेणु-भूमि-पर्वतराजिसदृशः चतुर्विधः क्रोधः । तिनिशलता-काष्ठाऽस्थिकशैलस्तम्भोपमो मानः ।।२९९०॥ मायावलेहिका-गोमूत्रिका-मेषशृङ्ग-घनवंशीमूलसमा । लोभो हरिद्रा-खञ्जन-कर्दम-कृमिरागसमानः ॥२९९१॥ पक्ष-चतुर्मास-वत्सर-यावज्जीवानुगामिनः क्रमशः । देव-नर-तिर्यग्-नारकगतिसाधनहेतवो ज्ञेयाः ॥२९९२॥' - इति संस्कृते छाया ॥
[पृ०३७५] “तत्र प्रथमतो लक्षण-भेदयोः प्ररूपणार्थमाह- जं करणेणोकड्डिय उदए दिज्जइ उदीरणा एसा । पगइठिइअणुभागप्पएसमूलुत्तरविभागा ॥४१॥ जं ति अत्र पूर्वार्धेन लक्षणमभिहितमुत्तरार्धेन तु भेदः । तत्र यत्परमाण्वात्मकं दलिकं करणेन योगसंज्ञकेन वीर्यविशेषेण कषायसहितेनासहितेन वा उदयावलिकाबहिर्वर्तिनीभ्यः स्थितिभ्योऽपकृष्योदये दीयते उदयावलिकायां प्रक्षिप्यते एषोदीरणा । उक्तं च- उदयावलियबाहिरिल्लठिईहिंतो कसायसहिएणं असहिएण वा जोगसन्नेण करणेणं दलियमाकट्टिय उदयावलियाए पवेसणं उदीरण [ ] त्ति । सा च किंभूतेत्यत आहप्रकृतिस्थित्यनुभागप्रदेशमूलोत्तरविभागा, प्रकृतिस्थित्यनुभागप्रदेशैर्मूलप्रकृतिभिरुत्तरप्रकृतिभिश्च कृत्वा विभागो भेदो यस्याः सा तथा । इदमुक्तं भवति- सोदीरणा चतुर्विधा, तद्यथा- प्रकृत्युदीरणा, स्थित्युदीरणा, अनुभागोदीरणा, प्रदेशोदीरणा च । एकैकापि द्विधा- मूलप्रकृतिविषया उत्तरप्रकृतिविषया च । तत्र मूलप्रकृतिविषयाऽष्टधा, उत्तरप्रकृतिविषया चाष्टपञ्चाशदधिकशतभेदा ॥४।१।। ___ तदेवाह- उव्वदृणओवट्टणसंकमणाइं च तिन्नि करणाइं। पगई तया समइउं पहू नियट्टिम्मि वढ्तो ॥५।६७॥ उवट्टणउ त्ति देशोपशमनया उपशमितस्य कर्मण उद्वर्तनापवर्तनासंक्रमरूपाणि त्रीणि करणानि प्रवर्तन्ते, नान्यानि करणानि उदीरणाप्रभृतीनि । एष देशोपशमनाया विशेषः । तथा मूलप्रकृतिमुत्तरप्रकृतिं वा तया देशोपशमनया उपशमयितुं प्रभुः समर्थो निवृत्तिकरणेऽपूर्वकरणे वर्तमानः। इह निवृत्तिग्रहणं पर्यवसानार्थं वेदितव्यम् । तत इदमुक्तं भवति- सर्वेऽप्येकद्वित्रिचतुरिन्द्रियासंज्ञिसंज्ञिपञ्चेन्द्रियतिर्यङ्नारकदेवा मनुष्याश्च यथासंभवमपूर्वकरणपर्यवसानाः सर्वकर्मणां देशोपशमनास्वामिनोऽवसेयाः ॥५।६७॥” - कर्मप्रकृति० मलय० ॥
[पृ० ३७६] "जोगा पयडिपएसं ठिइअणुभागं कसायओ कुणइ । .... ॥९९॥ व्या० जोगाओ पगतिबंधो पदेसबंधो य भवति, कहं ? भन्नइ, जोगाओ पएसगहणं पदेसविरहिओ पगतीणं बंधो पत्थि; तेण जोगा पगतिपदेसबंधो । ठितिबंधं अणुभागबंधं च कसायतो करेइ । कहं ? भन्नइ, कम्मस्स णिबद्धस्स ट्टिई रसभावो य कसायतो भवति, ते चेव ठितिअणुभागा । एत्थ अद्दहणतंदुलदिढतो, अद्दहणतुल्लो अणुभागो, तंदुलत्थाणीया पदेसा, जो रद्धो सो चिरकालठाति, इतरो वा, पगतीबलातिकरणं ॥९९॥" - बन्धशतकचूर्णौ ॥
[पृ०३७७] “तत्र प्रथमतः संक्रमस्य सामान्यलक्षणमभिधातुकाम आह- सो संकमो त्ति वुच्चइ
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org