________________
प्रथमं परिशिष्टम्- टिप्पनानि थेरा य अमुहा सिया, से णं भंते ! किं आराहए विराहए ?, गोयमा ! आराहए, नो विराहए।" - [भगवती०८।६।७] निग्गंथेण येत्यादि, इह चशब्दः पुनरर्थः, तस्य घटना चैवम्-निर्ग्रन्थं कश्चित् पिण्डपातप्रतिज्ञया प्रविष्टं पिण्डादिनोपनिमन्त्रयेत् तेन च निर्ग्रन्थेन पुनः अकिच्चट्ठाणे त्ति कृत्यस्य करणस्य स्थानम्- आयः कृत्यस्थानम्, तनिषेधः अकृत्यस्थानं मूलगुणादिप्रतिसेवारूपोऽकार्यविशेष: तस्स णं ति तस्य निर्ग्रन्थस्य सञ्जातानुपातस्य एवं भवति एवंप्रकारं मनोभवति एयस्स ठाणस्स त्ति विभक्तिपरिणामाद् एतत्स्थानम् अनन्तरासेवितम् आलोचयामि स्थापनाचार्यनिवेदनेन प्रतिक्रमामि मिथ्यादुष्कृतदानेन निन्दामि स्वसमक्षं स्वस्याकृत्यस्थानस्य वा कुत्सनेन, गहें गुरुसमक्षं कुत्सनेन, विउदृमि त्ति वित्रोटयामि तदनुबन्धं छिनधि, विशोधयामि प्रायश्चित्तपत प्रायश्चित्ताभ्युपगमेन, अकरणतया अकरणेन अभ्युत्तिष्ठामि अभ्युत्थितो भवामीति अहारिहं ति यथार्ह यथोचितम्, एतच्च गीतार्थतायामेव भवति नान्यथा, अंतियं ति समीपं गत इति शेष: थेरा अमुहा सिय त्ति स्थविरा: पुनः अमुखा: निर्वाचः स्युर्वातादिदोषात्, ततश्च तस्यालोचनादिपरिणामे सत्यपि नालोचनादि संपद्यत इत्यतः प्रश्नयति- से णमित्यादि, आराहए त्ति मोक्षमार्गस्याराधकः शुद्ध इत्यर्थः भावस्य शुद्धत्वात्, संभवति चालोचनापरिणतौ सत्यां कथञ्चित्तदप्राप्तावप्याराधकत्वम् ॥८।६।७॥” इति भगवतीसूत्रे श्रीअभयदेवसूरिविरचितटीकासहिते॥
[पृ० ३६८] “इत्थं स्वगतदोषपरिहारमभिधायोपाधिकृतदोषपरिहारमाह- समरेसु अगारेसुं, गिहसंधिसु अ महापहेसु । एगो एगित्थीए सद्धिं, नेव चिढे न संलवे ॥२६॥ वृ० समरेषु खरकुटीषु, तथा च चूर्णिकृत्- ‘समरं नाम जत्थ हेट्ठा लोयारा कम्मं करेंति', उपलक्षणत्वादस्यान्येष्वपि नीचास्पदेषु अगारेषु गृहेषु गृहसन्धिषु च गृहद्वयान्तरालेषु च महापथेषु राजमार्गादौ, किमित्याहएकः असहायः ‘एका असहाया सा चासौ स्त्री च एकस्त्री तया साई' सह नैव तिष्ठेत् असंलपन्नेव चोर्ध्वस्थानस्थो न भवेत्, न संलपेत् न तयैव सह संभाषं कुर्यात्, अत्यन्तदुष्टतोद्भावनपरं चैकग्रहणम्, अन्यथा ससहायस्यापि ससहायया अपि च स्त्रिया सहावस्थानं सम्भाषणं चैवंविधास्पदेषु दोषायैव, प्रवचनमालिन्यादिदोषसम्भवात्, अथवा सममरिभिर्वर्तन्त इति समरा द्रव्यतो जनसंहारकारिणः संग्रामाः भावात्तु स्त्रीणामरिभूतत्वात् ज्ञानादिजीवस्वतत्त्वघातिनः तासामेव दृष्ट्या दृष्टिसम्बन्धाः, तत्रेह भावसमरैरधिकारः, सप्तमी चेयम्, ततोऽयं भावार्थ:- द्रव्यसमरा हि न स्युरपि प्राणापहारिणः, भावसमरास्तु ज्ञानादिभावप्राणापहारिण एव, विशेषस्त्वेकाकितायाम्, तत एवमेतेष्वपि दारुणेषु भावसमरेषु सत्सु नैक एकस्त्रिया सार्द्धमगारादिषु तिष्ठेत् संलपेद्वा, अनेनापि चारित्रविनय एवोक्तः ।" - उत्तरा० पाईय० ॥२६॥
[पृ० ३६९] “तमुक्काए णं भंते ! किंसंठिए पण्णत्ते ? गोयमा ! अहे मल्लगमूलसंठिते, उप्पिं कुक्कुडगपंजरगसंठिए पण्णत्ते । किमियमित्यादि, तमुक्काए त्ति तमसां तमिश्रपुद्गलानां कायो राशिस्तमस्कायः स च नियत एवेह स्कन्धः कश्चिद्विवक्षितः,...... अहे इत्यादि, अधः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org