________________
२८
प्रथमं परिशिष्टम्- टिप्पनानि मद्यं पुनः काष्ठपिष्टनिष्पन्नं सीधुसुरारूपम्, माक्षिक-पोत्तिक-भ्रमरभेदं च त्रिधा मधु भवति विकृतिरिति गाथार्थः ॥३७४।। जलस्थलखचरमांसं 'चर'शब्दः प्रत्येकमभिसम्बध्यते, जलचर-स्थलचर-खेचरमांसं चर्म-वसा-शोणितं त्रिधैतदपि विकृतिरिति योगः । तथा 'आद्यत्रयचलचलोद्ग्राहिमकानि च' म्रक्षणभृततवकपक्वानि त्रीण्येव घारिकावटकादीनि विकृतिरिति गाथार्थः ॥३७५॥ शेषाणि चतुर्थघानादारभ्य न भवन्ति विकृतयः । अयोगवाहिनां साधूनाम् अविशेषतो निर्विकृतिकपरिभोक्तृणां तानि कल्पन्ते, न तत्र कश्चिद्दोषः, परिभुज्यन्ते न प्रायः तथाऽप्यनेन कारणेन, यद् निश्चयतो न ज्ञायन्ते कथमेतानि व्यवस्थितानि इति गाथार्थः ॥३७६॥एकेनैव तवकः पूर्यते पूपकेन यत् ततः पूपकाद् द्वितीयोऽपि निर्विकृतिकस्य कल्पते, असौ लेवाटको नवरमिति गाथार्थः ॥३७७॥" - पञ्चवस्तुकटीका । __ [पृ०३५२ पं० १९] तत्र गजानां चतम्रो जातयो भवन्ति- भद्रमन्दमृगमिश्राख्याः । तत्रादावेव भद्रलक्षणमाह- मध्वाभदन्ताः सुविभक्तदेहा न चोपदिग्धा न कृशाः क्षमाश्च । गात्रैः समैश्चापसमानवंशा वराहतुल्यैर्जघनैश्च भद्राः ॥१२॥१॥ ये गजा मध्वाभदन्ता मधुसदृशी आभा कान्तिर्येषाम् । सुविभक्तदेहाः शोभनं कृत्वा विभक्तो देहः शरीरं येषाम् । अवयवप्रविभागसम्पन्ना इत्यर्थः । न चोपदिग्धा: नातिस्थूलाः । न कृशा नातिदुर्बलदेहाः । क्षमाश्च कार्ययोग्याः । गात्रैश्च शरीरावयवैः समैस्तुल्यैर्युक्ताः। चापसमानवंशाः चापं शरासनं तत्समाना वंशास्तत्तुल्यपृष्ठाः । वराहतुल्यैः सूकरप्रतिमैश्च जघनैः कटिभागैरेभिः परिवर्तुलैस्तैर्भद्रा गजाः ॥१।। __ अथ मन्दलक्षणमाह- वक्षोऽथ कक्षावलयः श्लथाश्च लम्बोदरस्त्वग्बृहती गलश्च । स्थूला च कुक्षिः सह पेचकेन सैंही च दृग् मन्दमतङ्गजस्य ॥२॥ वक्ष उरः । अथशब्दश्चार्थे । कक्षावलयः । कक्षाग्रहणेन कक्षास्थानं शरीरमध्यमुच्यते । तत्र या वलयः । अथवा कक्षा तथा वलय एताः श्लथा: शिथिलाः लम्बोदरः प्रलम्बजठरः । त्वम् बृहती स्थूलं चर्म । गल: कण्ठश्च स्थूल एव । कुक्षिः स्थूला बृहती । सह पेचकेन पेचकं पुच्छमूलम्, तेन सह साकं स्थूलकुक्षिः। सैंही दृक् सिंहसदृशी दृष्टिः । तस्यैतल्लक्षणं मन्दमतङ्गजस्य मन्दसंज्ञगजस्य ॥२॥
अथ मृगसङ्कीर्णयोर्लक्षणमाह- मृगास्तु ह्रस्वाधरवालमेद्रास्तन्वन्रिकण्ठद्विजहस्तकर्णाः । स्थूलेक्षणाश्चेति यथोक्तचिह्नः सङ्कीर्णनागा व्यतिमिश्रचिह्नाः ॥३॥ ये गजा ह्रस्वाधरवालमेढ़ाः, ह्रस्वाधरा अल्पोष्ठाः । केचिद् ह्रस्वोदर इति पठन्ति । ह्रस्वा वाला वालाः पुच्छस्थाः । ह्रस्वा अदीर्घाः । ह्रस्वमेढ़ा अदीर्घलिङ्गाः । तन्वधिकण्ठद्विजहस्तकर्णाः, अङ्ग्री पादौ; कण्ठो गलः; द्विजा दन्ताः; हस्त: करः; कर्णौ श्रोत्रे चैतानि तनूनि स्वल्पमांसानि येषाम् । स्थूलेक्षणा विस्तीर्णनयनाः। अथवा स्थूलतारकाः स्थूलेक्षणाः । एते गजा मृगाः । एतैर्लक्षणैर्युक्ताः । यथोक्तचिन्है: सङ्कीर्णनागा व्यतिमिश्रचिह्नाः, यथोक्तैर्यथानिर्दिष्टैश्चितैर्लक्षणैर्भद्रमन्दमृगाणां संबन्धिभिर्ये व्यामित्रैर्युक्तास्ते नागा गजाः सङ्कीर्णाः ॥३॥" - इति वराहमिहिरप्रणीतायां भट्टोत्पलविरचितटीकासहितायां बृहत्संहितायाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org