________________
[सू० ५३७]
षष्ठमध्ययनं षट्स्थानकम् ।
प्रतिबन्धकानां ज्ञानावरण- दर्शनावरण- मोहनीया - ऽन्तरायाणाम्, क्षयोपशम इह उदीर्णस्य क्षयोऽनुदीर्णस्य च विपाकमधिकृत्योपशम इति गृह्यते, आह औपशमिकोऽप्येवंभूत एव, नैवम्, तत्रोपशान्तस्य प्रदेशानुभवतोऽप्यवेदनाद् अस्मिंश्च वेदनादिति, अयं च क्षयोपशमः क्रियारूप एवेति, क्षयोपशम एव क्षायोपशमिकः, क्षयोपशमनिष्पन्नस्त्वाभिनिबोधिकज्ञानादिलब्धिपरिणाम आत्मन एव, क्षयोपशमेन निर्वृत्तः क्षायोपशमिक : इति 5 च व्युत्पत्तिरिति । तथा परिणमनं परिणाम: अपरित्यक्तपूर्वावस्थस्यैव तद्भावगमनमित्यर्थः, उक्तं च
परिणामो ह्यर्थान्तरगमनं न च सर्वथा व्यवस्थानम् ।
न च सर्वथा विनाश: परिणामस्तद्विदामिष्टः ॥ [ ]
स एव पारिणामिक इत्युच्यते, स च साद्यनादिभेदेन द्विविधः, तत्र सादि: 10 जीर्णघृतादीनाम्, तद्भावस्य सादित्वादिति, अनादिपारिणामिकस्तु धर्मास्तिकायादीनाम्, तद्भावस्य तेषामनादित्वादिति । तथा सन्निपातो मेलकस्तेन निर्वृत्तः सान्निपातिकः, अयं चैषां पञ्चानामौदयिकादिभावानां द्व्यादिसंयोगतः सम्भवासम्भवानपेक्षया षड्विंशतिभङ्गरूप:, तत्र द्विकसंयोगे दश, त्रिकसंयोगेऽपि दशैव, चतुष्कसंयोगे पञ्च, पञ्चकसंयोगे त्वेक एवेति, सर्वेऽपि षड्विंशतिरिति, इह चाविरुद्धाः पञ्चदश 15 सान्निपातिकभेदा इष्यन्ते, ते चैवं भवन्ति
ओदय खओवसमिए परिणामेक्वेक्को गइचउक्के वि । खजोगेण वि चउरो तयभावे चुवसमेणं पि ॥ उवसमसेढी एक्को केवलिणो वि य तहेव सिद्धस्स । अविरुद्धसन्निवाइयभेया एमेते पन्नरस ॥ [ ] इति । औदयिक-क्षायोपशमिक-पारिणामिकनिष्पन्नः सान्निपातिक एकैको गतिचतुष्केऽपि, तद्यथा- औदयिको नारकत्वं क्षायोपशमिक इन्द्रियाणि पारिणामिको जीवत्वमिति, इत्थं तिर्यग्नरामरेष्वपि योजनीयमिति चत्वारो भेदा: । तथा क्षययोगेनापि चत्वार एव तावेव गतिषु, अभिलापस्तु औदयिको नारकत्वं क्षायोपशमिक इन्द्रियाणि क्षायिकः सम्यक्त्वं पारिणामिको जीवत्वमिति, एवं तिर्यगादिष्वपि वाच्यम्, सन्ति चैतेष्वपि 25 १. तुलना - अनुयोगद्वारे हारि० पृ० २९१, परिशिष्टे पृ० ४७ ॥
Jain Education International
६४७
For Private & Personal Use Only
20
www.jainelibrary.org