SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ६४८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे क्षायिकसम्यग्दृष्टयोऽधिकृतभङ्गान्यथानुपपत्तेरिति भावनीयमिति । तयभावे त्ति क्षायिकाभावे चशब्दाच्छेषत्रयभावे चौपशमिकेनापि चत्वार एव, उपशममात्रस्य गतिचतुष्टयेऽपि भावादिति, अभिलापस्तथैव, नवरं सम्यक्त्वस्थाने उपशान्तकषायत्वमिति वक्तव्यमेते चाष्टौ भङ्गाः, प्राक्तनाश्चत्वार इति द्वादश, उपशमश्रेण्यामेको भङ्ग: तस्या 5 मनुष्येष्वेव भावात्, अभिलाप: पूर्ववत्, नवरं मनुष्यविषय एव, केवलिनश्चैक एव औदयिको मानुषत्वं क्षायिक: सम्यक्त्वं पारिणामिको जीवत्वम्, तथैव सिद्धस्यैक एव, क्षायिक: सम्यक्त्वं पारिणामिको जीवत्वमिति, एवमेतैस्त्रिभिर्भङ्गैः सहिता: प्रागुक्ता: द्वादश अविरुद्धसान्निपातिकभेदा: पञ्चदश भवन्तीति, अपि च उवसमिए २ खइए वि य ९ खयउवसम १८ उदय २१ पारिणाम य ३ । 10 दो नव अट्ठारसगं इगवीसा तिन्नि भेएणं ॥ सम्म १ चरित्ते २ पढमे देसण १ नाणे य २ दाण ३ लाभे य ४ । उवभोग ५ भोग ६ वीरिय ७ सम्म ८ चरित्ते य ९ तह बीए २ ॥ चउनाण ४ ऽन्नाणतियं ३ दंसणतिय ३ पंच दाणलद्धीओ ५ । सम्मत्तं १ चारित्तं च १ संजमासंजमे १ तइए ॥ 15 चउगइ ४ चउक्कसाया ४ लिंगतियं ३ लेस छक्क ६ अन्नाणं १ । मिच्छत्त १ मसिद्धत्तं १ असंजमे १ तह चउत्थे उ ४ ॥ पंचमगम्मि य भावे जीव १ अभव्वत्त २ भव्वता ३ चेव । पंचण्ह वि भावाणं भेया एमेव तेवन्ना ॥ [ ] इति । [सू० ५३८] छव्विहे पडिक्कमणे पन्नत्ते, तंजहा-उच्चारपडिक्कमणे, 20 पासवणपडिक्कमणे, इत्तिरिते, आवकहिते, जंकिंचिमिच्छा, सोमणंतिते । [टी०] अनन्तरं भावा उक्तास्तेषु चाप्रशस्तेषु यद् वृत्तं यच्च प्रशस्तेषु न वृत्तं विपरीतश्रद्धान-प्ररूपणे वा ये कृते तत्र प्रतिक्रमितव्यं भवतीति प्रतिक्रमणमाह- छव्विहे पडिक्कमणे इत्यादि, प्रतिक्रमणं द्वितीयप्रायश्चित्तभेदलक्षणं मिथ्यादुष्कृतकरणमिति भाव:, तत्रोच्चारोत्सर्गं विधाय यदीर्यापथिकीप्रतिक्रमणं तदुच्चारप्रतिक्रमणम्, एवं 25 प्रश्रवणविषयमपीति, उक्तं च १. °णेत्यादि जे१२ खं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy