________________
आचार्यश्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
"
बन्धयोग्या भवन्ति, देव-नारकाः पुन: षण्मासे शेषे, तत्र तिर्यङ् - मनुष्यैर्यदि तृतीयत्रिभागे आयुर्न बद्धं ततः पुनस्तृतीयत्रिभागस्य तृतीयत्रिभागे शेषे बध्नन्ति एवं तावत् संक्षिपन्त्वायुर्यावत् सर्वजघन्य आयुर्बन्धकाल उत्तरकालश्च शेषस्तिष्ठति इह तिर्यङ् - मनुष्या आयुर्बध्नन्ति, अयं चासङ्क्षेपकाल उच्यते, तथा देव-नैरयिकैरपि यदि षण्मासे 5 शेषे आयुर्न बद्धं तत आत्मीयस्यायुषः षण्मासशेषं तावत् संक्षिपन्ति यावत् सर्वजघन्य आयुर्बन्धकाल उत्तरकालश्चावशेषोऽवतिष्ठते इह परभवायुर्देव-नैरयिका बध्नन्तीत्ययमसङ्क्षेपकालः ।
६४६
10
[सू० ५३७] छेव्विधे भावे पन्नत्ते, तंजहा - ओदतिते, उवसमिते, खतिते, खतोवसमिते, पारिणामिते, सन्निवाइए ।
[टी०] अनन्तरमायु:कर्म्मबन्ध उक्तः, आयुः पुनरौदयिकभावहेतुरित्यौदयिकभावं भावसाधर्म्याच्छेषभावांश्च प्रतिपादयन्नाह - छव्विहे भावे इत्यादि, भवनं भावः पर्याय इत्यर्थः, तत्रौदयिको द्विविधः - उदय उदयनिष्पन्नश्च तत्रोदयोऽष्टानां कर्म्मप्रकृतीनामुदयः शान्तावस्थापरित्यागेनोदीरणावलिकामतिक्रम्योदयावलिकायामात्मीयात्मीयरूपेण विपाक इत्यर्थ:, अत्र चैवं व्युत्पत्तिः- उदय एवौदयिकः, उदयनिष्पन्नस्तु कर्म्मोदयजनितो 15 जीवस्य मानुषत्वादिः पर्यायः, तत्र च उदयेन निर्वृत्तस्तत्र वा भव इत्यौदयिकः इत्येवं व्युत्पत्तिरिति, तथा औपशमिकोऽपि द्विविध:- उपशम उपशमनिष्पन्नश्च तत्रोपशमो मोहनीयकर्म्मणोऽनन्तानुबन्ध्यादिभेदभिन्नस्योपशमश्रेणिप्रतिपन्नस्य मोहनीयभेदान् अनन्तानुबन्ध्यादीनुपशमयतः उदयाभाव इत्यर्थः, उपशम एवौपशमिकः, उपशमनिष्पन्नस्तु उपशान्तक्रोध इत्यादिरुदयाभावफलरूप आत्मपरिणाम इति भावना, तत्र च व्युत्पत्तिः - 20 उपशमेन निर्वृत्त औपशमिक इति, तथा क्षायिको द्विविध:- क्षयः क्षयनिष्पन्नश्च तत्र क्षयोऽष्टानां कर्म्मप्रकृतीनां ज्ञानावरणादिभेदानां क्षयः कर्म्माभाव एवेत्यर्थः, तत्र क्षय एव क्षायिकः, क्षयनिष्पन्नस्तु तत्फलरूपो विचित्र आत्मपरिणामः केवलज्ञान-दर्शनचारित्रादिः, तत्र क्षयेण निर्वृत्तः क्षायिक इति व्युत्पत्तिः, तथा क्षायोपशमिको द्विविधःक्षयोपशमः क्षयोपशमनिष्पन्नश्च तत्र क्षयोपशमश्चतुर्णां घातिकर्म्मणां केवलज्ञान१. तुलना - अनुयोगद्वारे सू० २३३ - २५९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org