________________
षष्ठमध्ययनं षट्स्थानकम् ।
औदारिकादिशरीरनामकर्मेत्यवगाहनानाम तेन सह यन्निधत्तमायुस्तदवगाहनानामनिधत्तायुरिति, तथा प्रदेशानाम् आयुः कर्म्मद्रव्याणां नाम: तथाविधा परिणति: प्रदेशनाम प्रदेशरूपं वा नामकर्म्मविशेष इत्यर्थः प्रदेशनाम, तेन सह यन्निधत्तमायुस्तत् प्रदेशनामनिधत्तायुरिति, तथा अनुभाग: आयुर्द्रव्याणामेव विपाकस्तल्लक्षण एव नाम: परिणामोऽनुभागनामः, अनुभागरूपं वा नामकर्मानुभागनाम, तेन सह निधत्तं 5 यदायुस्तदनुभागनामनिधत्तायुरिति ।
अथ किमर्थं जात्यादिनामकर्म्मणाऽऽयुर्विशेष्यते ?, उच्यते, आयुष्कस्य प्राधान्योपदर्शनार्थम्, यस्मान्नारकाद्यायुरुदये सति जात्यादिनामकर्म्मणामुदयो भवति, नारकादिभवोपग्राहकं चायुरेव, यस्मादुक्तं प्रज्ञप्त्याम् - नेरइए णं भंते ? नेरइएसु उववज्जइ ? अनेरइए नेरइएसु उववज्जइ ?, गोयमा ! नेरइए नेरइएसु उववज्जइ [ भगवती० ४।९।१], एतदुक्तं 10 भवति– नारकायु:संवेदनप्रथमसमय एवं नारक इत्युच्यते, तत्सहचारिणां च पञ्चेन्द्रियजात्यादिनामकर्म्मणामप्युदय इति, इह चायुर्बन्धस्य षड्विधत्वे उपक्षिप्ते यदायुषः षड्विधत्वमुक्तं तद् आयुषो बन्धाव्यतिरेकाद् बद्धस्यैव चायुर्व्यपदेशविषयत्वादिति । नियमं ति अवश्यंभावादित्यर्थः, छम्मासावसेसाउय त्ति षण्मासा अवशेषा अवशिष्टा यस्य तत्तथा तदायुर्येषां ते षण्मासावशेषायुष्काः, परभवो विद्यते यस्मिंस्तत् परभविकं 15 तच्च तदायुश्चेति परभविकायुः प्रकुर्वन्ति बध्नन्ति, असङ्ख्येयानि वर्षाण्यायुर्येषां ते तथा ते च ते संज्ञिनश्च समनस्का: पञ्चेन्द्रियतिर्यग्योनिकाश्चेत्यसङ्ख्येयवर्षायुष्कसंज्ञिपञ्चेन्द्रियतिर्यग्योनिका, इह च संज्ञिग्रहणमसङ्ख्येयवर्षायुष्काः संज्ञिन एव भवन्तीति नियमदर्शनार्थम्, न त्वसङ्ख्येयवर्षायुषामसंज्ञिनां व्यवच्छेदार्थम्, तेषामभावादेवेति, इह च गाथे
[सू० ५३६]
निरइसुरअसंखाऊ तिरिमणुआ सेसए उ छम्मासे । इगविगला निरुवक्कमतिरिमणुया आउयतिभागे ॥ अवसेसा सोवक्कम तिभाग- नवभाग-सत्तवीसइमे ।
Jain Education International
६४५
बंधंति परभवाउं निययभवे सव्वजीवा उ ॥ [ ] इति ।
इदमेवान्यैरित्थमुक्तम् - इह तिर्यङ् - मनुष्या आत्मीयायुषस्तृतीयत्रिभागे परभवायुषो 25
१. विशिष्यते खं० विना ॥ २. निरयसुर जेमू१ । निरईएसुर जेसं १ ॥
For Private & Personal Use Only
20
www.jainelibrary.org