SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ६४४ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे नेरतियाणं छव्विहे आउयबंधे पन्नत्ते, तंजहा-जातिणामनिहत्ताउते जाव अणुभावनामणिहत्ताउए । एवं जाव वेमाणियाणं । ___ नेरइया णियमं छम्मासावसेसाउता परभवियाउयं पगरेंति । एवं असुरकुमारा वि जाव थणियकुमारा ।। 5 असंखेजवासाउयसन्निपंचेंदियतिरिक्खजोणिया णियमं छम्मासावसेसाउया परभवियाउयं पगरेति । असंखेजवासाउया सन्निमणुस्सा नियमं जाव पगरेंति। वाणमंतरा जोतिसिता वेमाणिता जधा णेरतिता । [टी०] अनन्तरमुपपातस्य विरह उक्तः, उपपातश्चायुर्बन्धे सति भवतीत्यायुर्बन्धसूत्रप्रपञ्चं छव्विहेत्यादिकमाह, सुगमश्चायम्, नवरम् आयुषो बन्ध: आयुर्बन्धः, तत्र जाति: 10 एकेन्द्रियजात्यादिः पञ्चधा, सैव नाम नाम्नः कर्मण उत्तरप्रकृतिविशेषो जीवपरिणामो वा तेन सह निधत्तं निषिक्तं यदायुस्तजातिनामनिधत्तायुः, निषेकश्च कर्मापुद्गलानां प्रतिसमयानुभवनरचनेति, उक्तं च मोत्तूण सगमबाहं पढमाए ठिईए बहुतरं दव्वं । सेसे विसेसहीणं जावुक्कस्संति सव्वासिं ॥ [ कर्मप्र० ] इति, ००० ०००० ००००० 15 स्थापना चेयम् तथा गति: नरकादिका चतुर्द्धा, शेषं तथैवेति गतिनामनिधत्तायुरिति, तथा स्थितिरिति यत् स्थातव्यं केनचिद्विवक्षितेन भावेन जीवेनायु:कर्मणा वा सैव नाम: परिणामो धर्म: स्थितिनामस्तेन विशिष्टं निधत्तं यदायु:दलिकरूपं तत् स्थितिनामनिधत्तायुः, अथवेह सूत्रे जातिनाम-गतिनामा-ऽवगाहनानामग्रहणाजातिगत्यवगाहनानां प्रकृतिमात्रमुक्तम्, 20 स्थिति-प्रदेशा-ऽनुभागनामग्रहणात्तु तासामेव स्थित्यादय उक्ताः, ते च जात्यादिनामसम्बन्धित्वान्नामकर्मरूपा एवेति नामशब्दः सर्वत्र कर्मार्थो घटत इति स्थितिरूपं नामकर्म स्थितिनाम तेन सह निधत्तं यदायुस्तत् स्थितिनामनिधत्तायुरिति, तथा अवगाहते यस्यां जीवः सा अवगाहना शरीरमौदारिकादि तस्या नाम १. कर्मप्रकृतौ बन्धनकरणे ८३तमी गाथा ॥ २. चैवम् पा० जे२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy