________________
[सू० ५३५-५३६]
षष्ठमध्ययनं षट्स्थानकम् ।
[सू० ५३५] चमरचंचा णं रायहाणी उक्कोसेणं छम्मासा विरहिता उववातेणं । एगमेगे णं इंदट्ठाणे उक्कोसेणं छम्मासे विरहिते उववाणं । अधेसत्तमा णं पुढवी उक्कोसेणं छम्मासा विरहिता उववातेणं । सिद्धिगती णं उक्कोसेणं छम्मासा विरहिता उववातेणं ।
[टी०] इहानन्तरसूत्रे तथाज्ञानप्रश्नो दर्शितस्तत्र चोत्तरवस्तुना भाव्यमिति तद् दर्शयति- 5 चमरचंचेत्यादि, चमरस्य दाक्षिणात्यस्यासुरनिकायनायकस्य चञ्चा चञ्चाख्या नगरी चमरचञ्चा, या हि जम्बूद्वीपमन्दरस्य पर्व्वतस्य दक्षिणेन तिर्यगसङ्ख्येयान् द्वीपसमुद्रान् व्यतिव्रज्यारुणवरद्वीपस्य बाह्याद् वेदिकान्तादरुणोदं समुद्रं द्विचत्वारिंशद्योजनसहस्राण्यवगाह्य चमरस्यासुरराजस्य तिगिंच्छिकूटो नामा य उत्पातपर्व्वतोऽस्ति सप्तदशैकविंशत्युत्तराणि योजनशतान्युच्चस्तस्य दक्षिणेन षड् योजनकोटीशतानि 10 साधिकान्यरुणोदे समुद्रे तिर्यग् व्यतिव्रज्याधो रत्नप्रभायाः पृथिव्याः चत्वारिंशतं योजनसहस्राण्यवगाह्य व्यवस्थिता जम्बूद्वीपप्रमाणा च सा चमरचञ्चा राजधानी उत्कृष्टेन षण्मासान् विरहिता वियुक्ता उपपातेन, इहोत्पद्यमानदेवानां षण्मासान् यावद्विरहो भवतीति भावः
विरहाधिकारादिदं सूत्रत्रयम् - एगेत्यादि, एकैकमिन्द्रस्थानं चमरादिसम्बन्ध्याश्रयो 15 भवन-नगर-विमानरूपस्तदुत्कर्षेण षण्मासान् यावद्विरहितमुपपातेनेन्द्रापेक्षयेति ।
अध: सप्तमीत्यत्र सप्तमी हि रत्नप्रभापि कथञ्चिद्भवतीति तद्व्यवच्छेदार्थमधोग्रहणं अतस्तमस्तमेत्यर्थः, सा षण्मासान् विरहितोपपातेन, यदाह
६४३
चवीस मुहुत्ता १ सत्त अहोरत २ तह य पन्नरस ३ ।
मासो य ४ दो य ५ चउरो ६ छम्मासा विरहकालो उ७ ॥ [ बृहत्सं० २८१] इति । 20 सिद्धिगतावुपपातो गमनमात्रमुच्यते न जन्म, तद्धेतूनां सिद्धस्याभावादिति, इहोक्तम्एगसमओ जहन्नं उक्कोसेणं हवंति छम्मासा ।
विरहो सिद्धिगईए उव्वट्टणवज्जिया नियमा ॥ [ बृहत्सं० ३४५] इति । शेषं सुगममिति । [सू० ५३६ ] छव्विधे आउयबंधे पन्नत्ते, तंजहा - जातिणामनिधत्ताउते, गतिणामणिधत्ताउते, ठितिनामनिधत्ताउते, ओगाहणाणामनिधत्ताउते, 25 पदेसणामनिधत्ताउते, अणुभावणामनिहत्ताउते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org