SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ६४२ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे परिणामाधिकारादायातं विषपरिणामसूत्रमप्येवम्, नवरं डक्के त्ति दष्टस्य प्राणिनो दंष्ट्राविषादिना यत् पीडाकारि तद् दष्टं जङ्गमविषम्, यच्च भुक्तं सत् पीडयति तद् भुक्तमित्युच्यते, तच्च स्थावरम्, यत् पुनर्निपतितम् उपरि पतितं सत् पीडयति तन्निपतितं त्वग्विषं दृष्टिविषं चेति त्रिविधं स्वरूपतः, तथा किञ्चिन्मांसानुसारि मांसान्तधातुव्यापकं 5 किञ्चिच्छोणितानुसारि तथैव किञ्चिच्चाऽस्थिमिञ्जानुसारि तथैवेति त्रिविधं कार्यत:, एवं च सति षड्विधं तत्, ततस्तत्परिणामोऽपि षोलैवेति ॥ [सू० ५३४] छविहे पट्टे पन्नत्ते, तंजहा-संसयपट्टे, वुग्गहपट्टे, अणुजोगी, अणुलोमे, तहणाणे, अतहणाणे । [टी०] एवंभतार्थानां च निर्णयो निरतिशयस्याऽऽप्तप्रश्नतो भवतीति प्रश्नविभागमाह10 छव्विहेत्यादि, प्रच्छनं प्रश्नः, तत्र संशयप्रश्न: क्वचिदर्थे संशये सति यो विधीयते यथा जइ तवसा वोदाणं संजमओऽणासवो त्ति ते कह णु । देवत्तं जंति जई ? गुरुराह सरागसंजमओ ॥ [ ] व्युद्ग्रहेण मिथ्याभिनिवेशेन विप्रतिपत्त्येत्यर्थः, परपक्षदूषणार्थं य: क्रियते प्रश्नः स व्युद्ग्रहप्रश्नः, यथा15 सामनाउ विसेसो अन्नोऽणन्नो व होज जइ अन्नो । सो नत्थि खपुप्फ पिवऽणन्नो सामन्नमेव तयं ॥ [विशेषाव० ३४] ति । अनुयोगीति अनुयोगो व्याख्यानं प्ररूपणेति यावत् स यत्रास्ति तदर्थं य: क्रियत इति भावः, यथा- चउहिं समएहिं लोगो इत्यादिप्ररूपणाय कइहिं समएहीत्यादि ग्रन्थकार एव प्रश्नयति, अनुलोमो अनुलोमनार्थम् अनुकूलकरणाय परस्य यो विधीयते, 20 यथा क्षेमं भवतामित्यादि, तहनाणे त्ति यथा प्रच्छनीयार्थे प्रष्टव्यस्य ज्ञानं तथैव प्रच्छकस्यापि ज्ञानं यत्र प्रश्ने स तथाज्ञानः, जानत्प्रश्न इत्यर्थः, स च गौतमादे: यथा केवइकालेणं भंते ! चमरचंचा रायहाणी विरहिया उववाएण [ ] मित्यादिरिति, एतद्विपरीतस्त्वतथाज्ञानोऽजानत्प्रश्न इत्यर्थः, क्वचित् छव्विहे अढे इति पाठस्तत्र संशोदिभिरर्थो विशेषणीय इति । १. अढे भां० ॥ २. 'दिरों खं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy