SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ ६३८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे ठाणे सरीर भाषा तिविहो पुण कुक्कुई समासेणं ॥ [बृहत्कल्प० ६३१९] ति, तत्र स्थानतो यो यन्त्रकवत नर्तिकावद्वा भ्राम्यतीति, शरीरतो य: करादिभि: पाषाणादीन् क्षिपति, उक्तं च करगोफणधणुपायाइएहि उच्छुहइ पत्थराईए । 5 भमुहादाढियथणपुयविकंपणं णट्टवाइत्तं ॥ [बृहत्कल्प० ६३२३] ति, भाषातो य: सेण्टित-मुखवादित्रादि करोति, तथा च जल्पति यथा परे हसन्तीति, उक्तं च छेलिअ मुहवाइत्ते जंपइ य तहा जहा परो हसइ कुणइ य रुए बहुविहे वग्घाडियदेसभासाओ ॥ [बृहत्कल्प० ६३२४] इति । 10 अयं च त्रिविधोऽपि संयमस्य पृथिव्यादिरक्षणादे: कायगुप्तिपर्यन्तस्य यथासम्भवं परिमन्थुर्भवत्येवेति १, मोहरिए त्ति मुखम् अतिभाषणातिशायनवदस्तीति मुखरः, स एव मौखरिको बहुभाषी, अथवा मुखेनारिमावहतीति निपातनात् मौखरिकः, उक्तं च– मुखरिस्स गोन्ननामं आवहइ मुहेण भासंतो ॥ [बृहत्कल्प० ६३२७] इति, स च सत्यवचनस्य मृषावादविरते: परिमन्थुः, मौखर्ये सति मृषावादसम्भवादिति २, 15 चक्खुलोल त्ति चक्षुषा लोल: चञ्चलः चक्षुर्वा लोलं चञ्चलं यस्य स तथा, स्तूपादीनालोकयन् व्रजति य इत्यर्थः, इदं च धर्मकथादीनामुपलक्षणम्, आह च आलोयंतो वच्चइ थूभाईणि कहेइ वा धम्मं । परियट्टणाणुपेहण ण पेह पंथं अणुवउत्तो ॥ [बृहत्कल्प० ६३३०] इति, इरियावहिय त्ति ईर्या गमनं तस्याः पन्था मार्ग ईर्यापथस्तत्र भवा या 20 समितिरीर्यासमितिलक्षणा सा ईर्यापथिकी, तस्या: परिमन्थुरिति, आह च छक्कायाण विराहण संजमे आयाइ कंटगाईया । आवडण भाणभेओ खद्धे उड्डाह परिहाणी ॥ [बृहत्कल्प० ६३३१] इति ३।। तितिणिए त्ति तितिणिकोऽलाभे सति खेदाद् यत्किञ्चनाभिधायी, स च खेदप्रधानत्वादेषणा उद्गमादिदोषविमुक्तभक्त-पानादिगवेषण-ग्रहणलक्षणा तत्प्रधानो यो 25 गोचरो गोरिव मध्यस्थतया भिक्षार्थं चरणं स एषणागोचरस्तस्य परिमन्थुः, सखेदो १. ति नास्ति जे१ खं० ॥ २. "दिसंरक्षणादेः पा० जे२ ॥ ३. चञ्चलं जे१ विना नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy