SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ षष्ठमध्ययनं षट्स्थानकम् । ६३९ [सू० ५३०] हि अनेषणीयमपि गृह्णातीति भाव: ४ । इच्छालोभिए त्ति इच्छा अभिलाष: स चासौ लोभश्च इच्छालोभः, महालोभ इत्यर्थः, शुक्लशुक्लोऽतिशुक्लो यथा, स यस्यास्ति स इच्छालोभिको महेच्छोऽधिकोपधिरित्यर्थः, उक्तं च- इच्छालोभो उ उवहिमइरेगे [बृहत्कल्प० ६३३२]त्ति, स मुक्तिमार्गस्येति मुक्तिः निष्परिग्रहत्वमलोभत्वमित्यर्थः, सैव मार्ग इव मार्गो 5 निर्वृतिपुरस्येति ५, भिज्ज त्ति लोभस्तेन यन्निदानकरणं चक्रवर्तीन्द्रादिऋद्धिप्रार्थनं तन्मोक्षमार्गस्य सम्यग्दर्शनादिरूपस्य परिमन्थुः, आर्तध्यानरूपत्वात्, भिध्याग्रहणाद् यत् पुनरलोभस्य भवनिर्वेद-मार्गानुसारितादिप्रार्थनं तन्न मोक्षमार्गस्य परिमन्थुरिति दर्शितमिति, ननु तीर्थकरत्वादिप्रार्थनं न राज्यादिप्रार्थनवद्दष्टमतस्तद्विषयं निदानं मोक्षस्यापरिमन्थुरिति, नैवम्, यत आह- सव्वत्थेत्यादि, सर्वत्र तीर्थकरत्व- 10 चरमदेहत्वादिविषयेऽपि आस्तां राज्यादौ भगवता जिनेन अनिदानता अप्रार्थनमेव पसत्थ त्ति प्रशंसिता श्लाघितेति, तथा चइहपरलोगनिमित्तं अवि तित्थगरत्तचरमदेहत्तं । सव्वत्थेसु भगवया अणियाणत्तं पसत्थं तु ॥ [बृहत्कल्प० ६३३४] एवमेव हि सामायिकशुद्धिः स्यादिति, उक्त चपडिसिद्धेसु वि दोसे विहिएसु य ईसि रागभावे वि। सामाइयं असुद्धं सुद्धं समयाए दोण्हं पि ॥ [ ] त्ति । अयं चान्तिमपरिमन्थयोर्विशेष:आहारोवहिदेहेसु इच्छालोभो उ सज्जई। नियाणकारी संगं तु कुरुते उद्धदेहिकं ॥ [ ] पारलौकिकमित्यर्थः ॥ 20 कप्पट्टिई इत्यादि, कल्पस्य कल्पाद्युक्तसाध्वाचारस्य सामायिकच्छेदोपस्थापनीयादेः स्थिति: मर्यादा कल्पस्थिति: । तत्र सामायिककल्पस्थिति:सिज्जायरपिंडे या १ चाउजामे य २ पुरिसजिढे य ३ । कीकम्मस्स य करणे ४ चत्तारि अवट्ठिया कप्पा ॥ [बृहत्कल्प० ६३६१] १. रेगो त्ति जे१ । 'रेग त्ति पा० जे२ ॥ २. 'सु अ दोसे पा० । 'सु य दोसे जे२ । ३. ट्ठि इत्यादि जे१ । 'ट्ठिईत्यादि पा० जे२ ॥ 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy