________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
एवमविरति : अब्रह्म, तद्वादं वार्तां वा, अथवा न विद्यते विरतिर्यस्याः सा अविरतिका स्त्री, तद्वादं तद्वार्त्तं वा तदासेवाभणनरूपां वदति, तथाहि-- अवमो भावयति-एष रत्नाधिकतया मां स्खलितादिषु प्रेरयति, ततो रोषादभ्याख्याति–
जेज्जेण अकजं सज्जं अज्जाघरे कयं अज्ज ।
5 उवजीविओ य भंते ! मए वि संसट्टकप्पोऽत्थ ॥ [ बृहत्कल्प० ६१५०]
अहमपि तद्भुक्तां भुक्तवानित्यर्थः, प्रस्तारभावना प्राग्वत् ४ ।
तथा अपुरुषो नपुंसकोऽयमित्येवं वादं वाचं वार्तां वा वदतीति, इह समास: प्रतीत एव, भावनाऽत्र - आचार्यं प्रत्याह- अयं साधुर्नपुंसकम्, आचार्य आह- कथं जानासि ?, स आह- एतन्निजकैरहमुक्तः- किं भवतां कल्पते प्रव्राजयितुं नपुंसकमिति ? ममापि 10 किञ्चित्तल्लिङ्गदर्शनाच्छङ्का अस्तीति, प्रस्तारः प्राग्वत्, अत्राप्युक्तम्–
इओ त्ति कहं जाणसि ? दिट्ठा णीया से तेहि मे वृत्तं ।
इओ तुब्भं पव्वावेउं मम वि संका ॥
दस य पाडिरूवं ठिय- चंकंमिय- सरीर-भासादी ।
बहुसो अपुरिसवयणे वित्थारारोवणं कुज्जा ॥ [ बृहत्कल्प ० ६१५३-५४ ] इति ।
15 तथा दासवादं वदति, भावना - कश्चिदाह- दासोऽयम्, आचार्य आह- कथम् ?, देहाकाराः कथयन्ति दासत्वमस्येति, प्रस्तारः प्राग्वदिति, अत्राप्युक्तम्
खरउत्ति कहं जाणसि ? देहागारा कहिंति से हंदि
छिक्कोवण शीघ्रकोप : उब्भंडो णीयासी दारुणसहावो ॥
देहेण वी विरूवो खुज्जो वडभो य बाहिरप्पाओ |
फुडमेवं आगारा कहंति जह एस खरओ त्ति ॥ [ बृहत्कल्प० ६९५७-५८] आचार्य आह
20
६३६
केइ सुरूव विरूवा खुज्जा मडहा य बाहिरप्पाया ।
न हु ते परिभवियव्वा वयणं व अणारियं वोत्तुं ॥ [ बृहत्कल्प० ६१५९] इत्यादि ६। इतिरेवंप्रकारान् एताननन्तरोदितान् षट् कल्पस्य साध्वाचारस्य प्रस्तारान् 25 प्रायश्चित्तरचनाविशेषान् मासगुर्व्वादि-पाराञ्चिकावसानान् प्रस्तार्य अभ्युपगमतः आत्मनि
१. सरू १ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org