________________
[सू० ५२८] षष्ठमध्ययनं षट्स्थानकम् ।
६३५ भिक्षाचर्यातो निवृत्याचार्यसमीपमागच्छतीत्येकं प्रायश्चित्तस्थानम्, तत: साधयति यथातेन दर्दरो मारित इति प्रायश्चित्तान्तरम्, ततोऽभ्याख्यातसाधुराचार्येणोक्तः यथा दर्दुरो भवता मारित: ?, असावाह- नैवम्, इह क्षुल्लकस्य प्रायश्चित्तान्तरम्, पुन: क्षुल्लक आहपुनरप्यपलपसीति, भिक्षुराह- गृहस्था: पृच्छयन्ताम्, वृषभा गत्वा पृच्छन्तीति प्रायश्चित्तान्तरमित्येवं योऽभ्याख्याति तस्य मृषावाददोष एव, यस्तु सत्यमारितं निद्भुते 5 तस्य दोषद्वयमिति १, अत्रोक्तम्
ओमो चोइज्जतो दुपहियाईसु संपसारेइ । पर्यालोचयति अहमवि णं चोइस्सं न य लभए तारिसं छिदं ॥ अन्नेण घाइए दहुरम्मि दटुं चलणं कयं ओमो। वहिओ हा एस तुमे न वत्ति बीयं पि ते णत्थि ॥ [बृहत्कल्प० ६१३५-३६] इत्यादि, 10
तथा मृषावादस्य सत्कं वादं विकल्पनं वार्ती वा वदति साधौ प्रायश्चित्तप्रस्तारो भवतीति, तथाहि- क्वचित् संखड्यामकालत्वात् प्रतिषिद्धौ साधू अन्यत्र गतौ, ततो मुहूर्तान्तरे रत्नाधिकेनोक्तम्- व्रजाम: संखड्यामिदानीं भोजनकालो यतस्तत्रेति, लघुर्भणति- प्रतिषिद्धोऽहं न पुनर्बजामि, ततोऽसौ निवृत्याचार्यायेदमालोचयति यथा
अयं दीन-करुणवचनैर्याचते, प्रतिषिद्धोऽपि च प्रविशति एषणां प्रेरयतीत्यादि, ततो 15 रत्नाधिकमाचार्यो भणति- साधो ! भवानेवं करोति ?, स आह– नैवमित्यादि, पूर्ववत् प्रस्तार: २, इहाप्युक्तम्मोसम्मि संखडीए मोयगगहणं अदत्तदाणम्मि । आरोवणपत्थारो तं चेव इमं तु नाणत्तं ॥ दीण-कलुणेहिं जायइ पडिसिद्धो विसइ एसणं हणइ । जंपइ मुहप्पियाणि य जोग-तिगिच्छा-निमित्ताई ॥ [बृहत्कल्प० ६१४२-४३] इत्यादि ।
एवमदत्तादानस्य वादं वदति, अत्र भावना- एकत्र गेहे भिक्षा लब्धा, सा अवमेन गृहीता, यावदसौ भाजनं संमार्टि तावद्रत्नाधिकेन संखड्यां मोदका लब्धास्तानवमो दृष्ट्वा निवृत्याचार्यस्यालोचयति- यथाऽनेनादत्ता मोदका गृहीता इत्यादि, प्रस्तारः प्राग्वदिति ३ । १. दर्दू जे१ खं० ॥
2U
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org