________________
आचार्यश्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
उक्कोस लोगमित्तो पडिवाइ परं अपडिवाई । [ आव० नि० ५३, विशेषाव० ७०३ ] इति । [सू० ५२७] नो कप्पइ निग्गंथाण वा निग्गंथीण वा इमाई छ अवतणाई वदित्तते, तंजहा- अलियवयणे, हीलियवयणे, खिंसितवयणे, फरुसवयणे, गारत्थियवयणे, विउसवितं वा पुणो उदीरित्तते ।
६३४
5 [टी०] एवंविधज्ञानवतां च यानि वचनानि वक्तुं न कल्पन्ते तान्याह - नो कप्पतीत्यादि कण्ठ्यम्, नवरम् अवयणाइं ति नञः कुत्सार्थत्वात् कुत्सितानि वचनानि अवचनानि, तत्राऽलीकं ‘प्रचलायसे किं दिवा' इत्यादिप्रश् न ' प्रचलायामि' इत्यादि, हीलितं सासूयं 'गणिन् ! वाचक ! ज्येष्ठार्य' इत्यादि, खिंसितं जन्म- -कर्माद्युद्घट्टनतः, परुषं दुष्टशैक्षेत्यादि, गारं ति अगारं गेहं तद्वृत्तयो अगारस्थिताः गृहिणः तेषां 10 यत्तदगारस्थितवचनं 'पुत्र ! मामक ! भागिनेय !’इत्यादि, उक्तं च
15
अरिरे माहणपुत्ता अव्वो बप्पो ति भाय मामो त्ति ।
भट्टी सामिय गोमिय ।। [बृहत्कल्प० ६११६] त्ति ।
व्यवशमितं वा उपशमितं वा पुनरुदीरयितुं न कल्पत इति प्रक्रमोऽवचनत्वादस्येति, अनेन व्यवशमितस्य पुनरुदीरणवचनं नाम षष्ठमवचनमुक्तम्, अत्र च गाथा
खामि वो मियाइं अहिगरणाई तु जे उदीरेंति ।
ते पावा नायव्वा तेसिं चारोवणा इणमो ॥ [ बृहत्कल्प० ६११८, निशीथभा० १८१८] इति । [सू० ५२८] छ कप्पस्स पत्थारा पन्नत्ता, तंजहा - पाणातिवातस्स वायं वयमाणे, मुसावायस्स वादं वदमाणे, अदिन्नादाणस्स वायं वयमाणे, अविरतिवायं वयमाणे, अपुरिसवायं वयमाणे, दासावायं वयमाणे, इच्चेते 20 छ कप्पस्स पत्थारे पत्थरेत्ता सम्ममपरिपूरेमाणे तट्ठाणपत्ते ।
[टी०] अवचनेषु प्रायश्चित्तप्रस्तारो भवतीति तानाह - छ कप्पेत्यादि, कल्पः साध्वाचारस्तस्य सम्बन्धिनस्तद्विशुद्ध्यर्थत्वात् प्रस्तारा: प्रायश्चित्तस्य रचनाविशेषाः, तत्र प्राणातिपातस्य वादं वार्तां वाचं वा वदति साधौ प्रायश्चित्तप्रस्तारो भवतीत्येकः, यथा अन्यजनविनाशितदर्दुरे न्यस्तपादं भिक्षुमुपलभ्य क्षुल्लक आह- साधो ! दुर्दुरो 25 भवता मारितः, भिक्षुराह - नैवम्, क्षुल्लक आह- द्वितीयमपि व्रतं ते नास्ति, ततः क्षुल्लक १. प्रचलाये इत्यादि पा० जे२ ॥ २. अरि अरे मा° खं० । अरि अरि मा पा० जे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org