SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ षष्ठमध्ययनं षट्स्थानकम् । [सू० ५२५-५२६] [सू० ५२५] आभिणिबोधियणाणस्स णं छव्विहे अत्थोग्गहे पन्नत्ते, तंजहासोइंदियत्थोग्गहे जाव नोइंदियत्थोग्गहे । [सू० ५२६] छव्विहे ओहिणाणे पन्नत्ते, तंजहा - आणुगामिते, अणाणुगामिते, वड्ढमाणते, हायमाणते, पडिवाती, अपडिवाती । [ टी०] अयं चातिरात्रादिकोऽर्थो ज्ञानेनावसीयत इत्यधिकृताध्ययनावतारिणो 5 ज्ञानस्याभिधानाय सूत्रद्वयमाह - आभीत्यादि, सुगमम्, नवरम् अर्थस्य सामान्यस्य श्रोत्रेन्द्रियादिभिः प्रथममविकल्पं शब्दोऽयमित्यादिविकल्परूपं चोत्तरविशेषापेक्षया सामान्यस्यावग्रहणमर्थावग्रहः, स च नैश्चयिक एकसामयिको व्यावहारिकस्त्वान्तर्मौहूर्त्तिकः, अर्थविशेषितत्वाद् व्यञ्जनावग्रहव्युदासः, स हि चतुर्धा । आणुगामिए त्ति अनुगमनशीलमनुगामि तदेवाऽऽनुगामिकं देशान्तरगतमपि ज्ञानिनं यदनुगच्छति 10 लोचनवदिति, यत्तु तद्देशस्थस्यैव भवति तद्देशनिबन्धनक्षयोपशमजत्वात् स्थानस्थदीपवद् देशान्तरगतस्य त्वपैति तदनानुगामिकमिति, उक्तं च अणुगामिओऽणुगच्छ गच्छंतं लोयणं जहा पुरिसं । इयरो य नागच्छइ ठिअप्पईवो व्व गच्छंतं ॥ [ विशेषाव० ७१५] इति । यत्तु क्षेत्रतोऽङ्गुलासङ्ख्येयभागविषयं कालत आवलिकासङ्ख्येयभागविषयं 15 द्रव्यतस्तेजोभाषाद्रव्यान्तरालवर्त्तिद्रव्यविषयं भावतस्तद्गतसङ्ख्येयपर्यायविषयं च जघन्यतः समुत्पद्य पुनर्वृद्धिं विषयविस्तरणात्मिकां गच्छदुत्कर्षेणाऽलोके लोकप्रमाणान्यसङ्ख्येयानि खण्डान्यसङ्ख्येया उत्सर्पिण्यवसर्पिणी: सर्वरूपिद्रव्याणि प्रतिद्रव्यमसङ्ख्येयपर्यायांश्च विषयीकरोति तद्वर्धमानमिति, उक्तं च पइसमयमसंखेज्जइभागहियं कोइ संखभागहियं । अन्नो संखेज्जगुणं खेत्तमसंखेज्जगुणमन्नो || पेच्छइ विवड्ढमाणं हायंतं वा तहेव कालं पि । [ विशेषाव० ७३० - ३१] इत्यादि । तथा यज्जघन्येनाङ्गुलासङ्ख्येयभागविषयमुत्कर्षेण सर्वलोकविषयमुत्पद्य पुनः सङ्क्लेशवशात् क्रमेण हानिं विषयसङ्कोचात्मिकां याति यावदङ्गुलासङ्ख्येयभागं तद्धीयमानमिति । तथा प्रतिपतनशीलं प्रतिपाति उत्कर्षेण लोकविषयं भूत्वा प्रतिपतति, तथा तद्विपरीतमप्रतिपाति, येनालोकस्य प्रदेशोऽपि दृष्टस्तदप्रतिपात्येवेति, आह च 1-A-25 Jain Education International ६३३ For Private & Personal Use Only 20 25 www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy