SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ६२६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे [टी०] अनन्तरं सत्त्वविशेषा उक्ता: सत्त्वानां चानपायत: साधुना भिक्षाचर्या कार्येति, सा च षोदेति दर्शयन्नाह– छव्विहेत्यादि, गोयरचरिय त्ति गो: बलीवईस्य चरणं चर: गोचरस्तद्वद्या चर्या चरणं सा गोचरचर्या, इदमुक्तं भवति- यथा गोरुच्चनीचतृणेष्वविशेषतश्चरणं प्रवर्त्तते तथा यत् साधोररक्तद्विष्टस्योच्च-नीच-मध्यम5 कुलेषु धर्मसाधनदेहपरिपालनाय भिक्षार्थं चरणं सा गोचरचर्ये ति, इयं चैकस्वरूपाऽप्यभिग्रहविशेषात् षोढा, तत्र प्रथमा पेटा वंशदलमयं वस्त्रादिस्थानं जनप्रतीतम्, सा च चतुरस्रा भवति , ततश्च साधुरभिग्रहविशेषाद्यस्यां चर्यायां ग्रामादिक्षेत्रं पेटावच्चतुरस्रं विभजन् विहरति सा पेटेत्युच्यते, एवमर्द्धपेटाऽपि एतदनुसारेण वाच्या, गोमूत्रणं गोमूत्रिका तद्वद्या सा तथा, इयं हि परस्पराभिमुखगृहपङ्क्त्योरेकस्यां 10 गत्वा पुनरितरस्यां पुनस्तस्यामेवेत्येवं क्रमेण भावनीया, पतङ्गः शलभस्तस्य वीथिका मार्ग: तद्वद्या सा तथा, पतङ्गगतिर्हि अनियतक्रमा भवति एवं याऽनाश्रितक्रमा सा तथा, संबुक्कवट्ट त्ति संबुक्कः शङ्खस्तद्वच्छङ्खभ्रमिवदित्यर्थो या वृत्ता सा संबुक्कवृत्तेति, इयं च द्वेधा, तत्र यस्यां क्षेत्रबहिर्भागाच्छववृत्तत्वगत्याऽटन क्षेत्रमध्यभागमायाति साऽभ्यन्तरसंबुक्का, यस्यां तु मध्यभागाद् बहिर्याति सा बहिःसम्बुक्केति । गंतुंपच्चागय 15 त्ति उपाश्रयान्निर्गत: सन्नेकस्यां गृहपङ्क्तौ भिक्षमाणः क्षेत्रपर्यन्तं गत्वा प्रत्यागच्छन् पुनर्द्वितीयायां गृहपङ्क्तौ यस्यां भिक्षते सा गत्वाप्रत्यागता, गत्वा प्रत्यागतं यस्यामिति च विग्रह इति । _ [सू० ५१५] जंबूदीवे दीवे मंदरस्स पव्वतस्स दाहिणेणमिमीसे रतणप्पभाते पुढवीए छ अवक्कंतमहानिरता पन्नत्ता, तंजहा-लोले, लोलुए, उद्दड्डे, निद्दड्डे, 20 जरते, पजरते । __ चउत्थीए णं पंकप्पभाते पुढवीते छ अवकंतमहानिरता पन्नत्ता, तंजहाआरे, वारे, मारे, रोरे, रोरुते, खाडखडे । [टी०] अनन्तरं साधुचर्योक्तेति चर्याप्रस्तावादसाधुचर्याफलभोक्तृस्थानविशेषाभिधानाय सूत्रद्वयं जंबूदीवेत्यादि सुगमम्, नवरम् अवक्कंत त्ति अपक्रान्ता: १. उदढे निदड्ढे भां० ॥ २. जंबुद्दीवे पा० खं० । जंबुदीवे जे२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy