________________
10
[सू० ५१५] षष्ठमध्ययनं षट्स्थानकम् ।
६२७ सर्वशुभभावेभ्योऽपगता भ्रष्टास्तदन्येभ्योऽतिनिकृष्टा इत्यर्थः, अपकान्ता वा अकमनीया:, सर्वेऽप्येवमेव नरका:, विशेषतश्चैते इति दर्शनार्थं विशेषणमिति सम्भाव्यते, ते च ते महानरकाश्चेति विग्रह: एतेषां चैवं प्ररूपणा
तेरिकारस नव सत्त पंच तिन्नेव होंति एक्को य । पत्थडसंखा एसा सत्तसु वि कमेण पुढवीसु ॥ [बृहत्सं० २५३]
एवमेकोनपञ्चाशत् प्रस्तटा:, एतेषु क्रमेणैतावन्त एव सीमन्तकादयो वृत्ताकारा नरकेन्द्रकाः, तत्र सीमन्तकस्य पूर्वादिदिक्षु एकोनपञ्चाशत्प्रमाणा नरकावली विदिक्षु चाष्टचत्वारिंशत्प्रमाणेति प्रतिप्रस्तटमुभयत्रैकैहान्या सप्तम्यां दिक्ष्वेकैक एव विदिक्षु न सन्त्ये वेति, उक्तं चएगूणवन्ननिरया सेढी सीमंतगस्स पुव्वेणं । उत्तरओ अवरेण य दाहिणओ चेव बोद्धव्वा ॥ अडयालीसं निरया सेढी सीमंतगस्स बोद्धव्वा । पुव्वुत्तरेण नियमा एवं सेसासु विदिसासु ॥ एक्केक्को य दिसासु मज्झे निरओ भवेऽपइट्ठाणो । विदिसानिरयविरहियं तं पयरं पंचगं जाण ॥ [विमान० १४-१५-१६] सीमन्तकस्य च पूर्वादिषु दिक्षु सीमन्तकप्रभादयो नरका भवन्ति, तदुक्तम्सीमंतकप्पभो खलु निरओ सीमंतगस्स पुव्वेण । सीमंतगमज्झिमओ उत्तरपासे मुणेयव्वो ॥ सीमंतावत्तो पुण निरओ सीमंतगस्स अवरेणं । सीमंतगावसिट्ठो दाहिणपासे मुणेयव्वो ॥ [विमान० २०-२१] इति ।
तत: पूर्वादिषु चतसृषु दिक्षु सीमन्तकापेक्षया तृतीयादय: प्रत्येकमावलिकासु विलयादयो नरका भवन्तीति, एवं चैते लोलादय: षडप्यावलिकागतानां मध्ये अधीता विमाननरकेन्द्रकाख्ये ग्रन्थे, यतस्तत्रोक्तम्- लोले तह लोलुए चेव [विमान० ३०] इति, एतौ चावलिकाया: पर्यन्तिमौ, तथा उद्दड्ढे चेव निद्दढे [विमान० २७] त्ति एतौ सीमन्तकप्रभाविंशतितमैकविंशाविति, तथा जरए तह चेव पज्जरए [विमान० २९] त्ति 25 पञ्चत्रिंशत्तम-षट्त्रिंशत्तमौ, केवलं लोलो लोलुप इत्येवं शुद्धपदैः सर्वनरकाणां
15
___15
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org