________________
६२४
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे अभिंतरए त्ति लौकिकैरनभिलक्ष्यत्वात् तन्त्रान्तरीयैश्च परमार्थतोऽनासेव्यमानत्वान्मोक्षप्राप्त्यन्तरङ्गत्वाच्चाभ्यन्तरमिति, प्रायश्चित्तम् उक्तनिर्वचनमालोचनादि दशविधमिति १, विनीयते कर्म येन स विनय:, उक्तं च
जम्हा विणयइ कम्मं अट्ठविहं चाउरंतमोक्खाए । तम्हा उ वयंति विऊ विणयं ति विलीणसंसारा ॥ [आव० नि० १२३१] इति ।
स च ज्ञानादिभेदात् सप्तधा वक्ष्यते २। तथा व्यावृतभावो वैयावृत्यं धर्मसाधनार्थमन्नादिदानमित्यर्थः ३, आह च
वेयावच्चं वावडभावो इह धम्मसाहणणिमित्तं ।
अन्नाइयाण विहिणा संपायणमेस भावत्थो ॥ [ ] इति । तच्च दशधा10 आयरिय उवज्झाए थेरतवस्सीगिलाणसेहाणं ।।
साहम्मियकुलगणसंघसंगयं तमिह कायव्वं ॥ [ ] ति ।
सुष्ठु आ मर्यादया अध्याय: अध्ययन स्वाध्यायः, स च पञ्चधा- वाचना प्रच्छना परिवर्तना अनुप्रेक्षा धर्मकथा चेति ४, ध्यातिर्ध्यानम् एकाग्रचिन्तानिरोधः, तच्चतुर्की
प्रोग् व्याख्यातम्, तत्र धर्म-शुक्ले एव तपसी निर्जरार्थत्वात्, नेतरे बन्धहेतुत्वादिति 15 ५, व्युत्सर्गः परित्यागः, स च द्विधा- द्रव्यतो भावतश्च, तत्र द्रव्यतो गण
शरीरोपध्याहारविषयः, भावतस्तु क्रोधादिविषय इति ६ । एते च तप:सूत्रे दशकालिकाद्विशेषतोऽवसेये इति ।
[सू० ५१२] छव्विहे विवादे पन्नत्ते, तंजहा-ओसक्कतित्ता, उस्सक्कइत्ता, अणुलोमइत्ता, पडिलोमतित्ता, भइत्ता, भेलतित्ता । 20 टी०] अनन्तरोदितार्थेषु विवदते कश्चिदिति विवादस्वरूपमाह- छव्विहेत्यादि. षड्विधः षड्भेदो विप्रतिपन्नयो: क्वचिदर्थे वादो जल्पो विवादः प्रज्ञप्तः, तद्यथा
ओसक्कइत्त त्ति अवष्वष्क्य अपसृत्याऽवसरलाभाय कालहरणं कृत्वा यो विधीयते स तथोच्यते, एवं सर्वत्र, क्वचिच्च ओसक्वावइत्त त्ति पाठस्तत्र प्रतिपन्थिनं केनापि १. सू० ५८५ ॥ २. उद्धृतमिदं गाथाद्वयं दशवै० हा० ॥ ३. दृश्यतां सू०२४७ ।। ४. दृश्यतां दशवैकालिकसूत्रस्य
हारिभत्र्यां वृत्तौ प्रथमाध्ययने तवे इत्यस्य व्याख्या ॥ ५. विवागे पं० तं० ओसक्कवइत्ता उस्सक्कावइत्ता अणुलोमइत्ता पडिलोमयित्ता भयित्ता भेदयित्ता भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org