SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ [सू० ५११] षष्ठमध्ययनं षट्स्थानकम् । इह भावना - अक्षिप्रं चिरेण, निश्रितं लिङ्गात्, अनिश्चितं सन्दिग्धम्, अध्रुवं कदाचित्, अथवा निश्रितानिश्रितयोरयमपरो विशेष:- निश्रितं गृह्णाति गवादिकमर्थं सारङ्गादिधर्म्मविशिष्टमवगृह्णाति, अनिश्रितं गां गोधर्मैरेव विशिष्टं गृह्णाति, यदिह न स्पृष्टं तत् स्पष्टमेवेति । [सू० ५११] छव्विधे बाहिरते तवे पन्नत्ते, तंजहा - अणसणं, ओमोदरिता, 5 भिक्खातरिता, रसपरिच्चाते, कायकिलेसो, पडिसंलीणता । छव्विधे अब्भंतरते तवे पन्नत्ते, तंजहा - पायच्छित्तं, विणओ, वेयावच्चं, सज्झाओ, झाणं, विउसग्गो । ६२३ [टी०] अनन्तरं मतिरुक्ता, तद्विशेषवन्तश्च तपस्यन्तीति तपोऽभिधानाय सूत्रद्वयम् - छव्विहेत्यादि गतार्थमेतत्, तथापि किञ्चिदुच्यते, बाहिरए तवे त्ति बाह्यमित्यासेव्यमानस्य 10 लौकिकैरपि तपस्तया ज्ञायमानत्वात् प्रायो बहिः शरीरस्य तापकत्वाद्वा तपति दुनो शरीरकर्माणि यत्तत्तप इति, तत्राऽनशनम् अभोजनमाहारत्याग इत्यर्थः, तद् द्विधाइत्वरं यावत्कथिकं च, तत्रेत्वरं चतुर्थादि षण्मासान्तमिदं तीर्थमाश्रित्येति, यावत्कथिकं त्वाजन्मभावि त्रिधा– पादपोपगमनेङ्गितमरण-भक्तपरिज्ञाभेदात्, एतच्च प्राग्व्याख्यातमिति १, ओमोयरियत्ति अवमम् ऊनमुदरं जठरम् अवमोदरं तस्य करणमवमोदरिकेति, सा च द्रव्यत उपकरण-भक्त-पानविषया प्रतीता, भावतस्तु क्रोधादित्याग इति २, तथा भिक्षार्थं चर्या चरणमटनं भिक्षाचर्या, सैव तपो निर्जराङ्गत्वादनशनवद्, अथवा सामान्योपादानेऽपि विशिष्टा विचित्राभिग्रहयुक्तत्वेन वृत्तिसङ्क्षेपरूपा सा ग्राह्या, यत इहैव वक्ष्यति– छव्विहा गोयरचरिय [सू० ५१४] त्ति, न चेयं ततोऽत्यन्तभिन्नति, भिक्षाचर्यायां चाभिग्रहा द्रव्यादिविषयतया चतुर्विधाः, तत्र द्रव्यतोऽलेपकार्याद्येव द्रव्यं 20 ग्रहीष्ये, क्षेत्रतः परग्राम- गृहपञ्चकादिलब्धम्, कालतः पूर्वाह्णादौ, भावतो गानादिप्रवृत्ताल्लब्धमिति ३, रसा: क्षीरादयः, तत्परित्यागो रसपरित्यागः ४, कायक्लेशः शरीरक्लेशनम्, स च वीरासनादिरनेकधा ५, प्रतिसंलीनता गुप्तता, सा चेन्द्रियकषाय-योगविषया विविक्तशयनासनता वेति ६ । १. यदि न स्पृष्टं तत् स्पृष्टमेवेति जे१ खं० ॥ २. 'भेदात् तच्च जे१ ॥ ३. दृश्यतां सू०११३ ॥ Jain Education International For Private & Personal Use Only 15 www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy