________________
६२२
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे क्षिप्रमवगृह्णाति तूल्यादिस्पर्श क्षयोपशमपटुत्वादचिरेणैव वेत्ति मतिस्तद्विशिष्टः पुरुषो वेति, बहुं ति शय्यायां ह्युपविशन् पुमांस्तत्रस्थयोषित्- पुष्प-चन्दन-वस्त्रादिस्पर्शं बहु भिन्नजातीयं सन्तमेकैकं भेदेनावबुध्यते- अयं योषित्स्पर्श इत्यादि, बहुविहं ति बढ्यो विधा भेदा यस्य स बहविधस्तं योषिदादिस्पर्शमेकैकं शीत-स्निग्ध-मृद5 कठिनादिरूपमवगृह्णातीति, धुवं ति ध्रुवमत्यन्तं सर्वदैवेत्यर्थः, यदा यदा अस्य तेन स्पर्शेन योषिदादिना योगो भवति तदा तदा तमवच्छिनत्तीत्यर्थः, एतदुक्तं भवतिसतीन्द्रिये सति चोपयोगे यदाऽसौ विषय: स्पृष्टो भवति तदा तमवगृह्णात्येवेति, अणिस्सियं ति निश्रितो लिङ्गप्रमितोऽभिधीयते, यथा यूथिकाकुसुमानामत्यन्तं शीत-मृदु-स्निग्धादिरूप:
प्राक् स्पर्शोऽनुभूत: तेनानुमानेन लिङ्गेन तं विषयमपरिच्छिन्दत् यदा ज्ञानं प्रवर्त्तते तदा 10 अनिश्रितमलिङ्गमवगृह्णातीत्यभिधीयते, असंदिद्धं ति असंदिग्धं निश्चितं
सकलसंशयादिदोषरहितमिति, यथा तमेव योषिदादिस्पर्शमवगृह्णत् योषित एवायं चन्दनस्यैवायमित्येवमवगृह्णातीति । एवमीहा-ऽपाय-धारणामतीनां षड्विधत्वम्, नवरं धारणायां क्षिप्र-ध्रुवपदे परित्यज्य पुराण-दुर्द्धरपदाभ्यां सह षड्विधत्वमुक्तम्, तत्र च
पुराणं बहुकालीनं दुर्द्धरं गहनं चित्रादीति, क्षिप्र-बहु-बहुविधादिपदषट्कविपर्ययेणापि 15 षड्विधा अवग्रहादिमतिर्भवतीति मतिभेदानामष्टाविंशतेादशभिर्गुणनात् त्रीणि शतानि षट्त्रिंशदधिकानि भवन्ति, अभाणि च भाष्यकारेण
जं बहु १ बहुविह २ खिप्पा ३ ऽणिस्सिय ४ निच्छिय ५ धुवे ६ यर १२ विभिन्ना । पुणरोग्गहादओ तो तं छत्तीसत्तिसयभेदं ॥ ति, नानासद्दसमूहं बहुं पिहं मुणइ भिन्नजाइयं १ । बहुविहमणेगभेदं एक्वेक्कं निद्धमहुरादि २ ॥ खिप्पमचिरेण ३ तं चिय सरूवओ जं अनिस्सियमलिंगं ४ । निच्छ(च्छि?)यमसंसयं जं ५ धुवमच्चंतं न उ कयाइ ६ ॥ एत्तो च्चिय पडिवक्खं साहेज्जा निस्सिए विसेसो वा ।
परधम्मेहि विमिस्सं निस्सियमविनिस्सियं इयरं ॥ [विशेषाव० ३०७-३१०] ति । १. सर्वदेत्यर्थः पा० जे२ । सर्वदेवेत्यर्थः जे१ खं० ॥ २. पाठोऽयं विशेषावश्यकभाष्यानुसारेण ।
°खिप्पा३अणिस्सिय जे१, २ खं० पा० ॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org