SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ६१८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे च निरूपणा, कालप्रत्युपेक्षणा उचितानुष्ठानकरणार्थं कालविशेषस्य पर्यालोचना, भावप्रत्युपेक्षणा धर्मजागरिकादिरूपा, यथाकिं कय किं वा सेसं किं करणिजं तवं च न करेमि ?। पुव्वावरत्तकाले जागरओ भावपडिलेहा ॥ [ओघनि० २६२] इति । 5 तत्र प्रत्युपेक्षणायां प्रमादः शैथिल्यमाज्ञातिक्रमो वा प्रत्युपेक्षणाप्रमादः, अनेन च प्रमार्जना-भिक्षाचर्यादिषु इच्छाकार-मिथ्याकारादिषु च दशविधसामाचारीरूपव्यापारेषु य: प्रमादोऽसावुपलक्षित:, तस्यापि सामाचारीगतत्वेन षष्ठप्रमादलक्षणाव्यभिचारित्वादिति। [सू० ५०३] छव्विधा पमायपडिलेहा पन्नत्ता, तंजहा10 आरभडा, संमद्दा, वजेतव्वा य मोसली ततिता । पप्फोडणा चउत्थी, वक्खित्ता, वेतिया छट्ठा ॥४५॥ छव्विधा अप्पमायपडिलेहा पन्नत्ता, तंजहाअणच्चावितं, अवलितं, अणाणुबंधिं, अमोसलिं चेव । छप्पुरिमा नव खोडा, पाणीपाणविसोहणी ॥४६॥ 15 [टी०] अनन्तरं प्रत्युपेक्षाप्रमाद उक्तः, अथ तामेव तद्विशिष्टामाह- छव्विहेत्यादि, षड्विधा षड्भेदा प्रमादेन उक्तलक्षणेन प्रत्युपेक्षा प्रमादप्रत्युपेक्षा प्रज्ञप्ता, तद्यथाआरभडा गाहा, आरभटा वितथकरणरूपा, अथवा त्वरितं सर्वमारभमाणस्य, अथवा अर्द्धप्रत्युपेक्षित एवैकत्र यदन्यान्यवस्त्रग्रहणं सा आरभटा, सा च वर्जनीया दोषत्वादिति सर्वत्र सम्बन्धनीयमिति, सम्मी यत्र वस्त्रस्य मध्यप्रदेशे संवलिता: कोणा भवन्ति, 20 यत्र वा प्रत्युपेक्षणीयोपधिवेण्टिकायामेवोपविश्य प्रत्युपेक्षते सा सम्मति, मोसली प्रत्युपेक्ष्यमाणवस्त्रभागेन तिर्यगूर्ध्वमधो वा घट्टनारूपा, तइय त्ति तृतीया प्रमादप्रत्युपेक्षणेति, क्वचिद् अट्ठाणट्ठवणा य त्ति दृश्यते, तत्र गुर्ववग्रहादिके अस्थाने प्रत्युपेक्षितोपधे: स्थापनं निक्षेपोऽस्थानस्थापना, प्रस्फोटना प्रकर्षेण धूननं रेणुगुण्डितस्येव १. पृ० ३६१ पं० ११ ॥ २. यदिइच्छाकार जे१ खं० ॥ ३. ओघनिर्युक्तावपीदं गाथाद्वयमस्ति २६६, २६५। पञ्चवस्तुके २४५, २३९। निशीथभाष्ये १४२८, १४३२ ॥ ४. °डणी भां० ।। ५. घट्टनरूपा पा० जे२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy