SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ [सू० ५०३] षष्ठमध्ययनं षट्स्थानकम् । ६१९ वस्त्रस्येति, इयं च चतुर्थी, विक्खित्त त्ति वस्त्रं प्रत्युपेक्ष्य ततोऽन्यत्र यमनिकादौ प्रक्षिपति यद् अथवा वस्त्राञ्चलादीनां यदूर्ध्वक्षेपणं सा विक्षिप्तोच्यते ५, वेइय त्ति वेदिका पञ्चप्रकारा, तत्र ऊर्ध्ववेदिका, यत्र जानुनोरुपरि हस्तौ कृत्वा प्रत्युपेक्षते १, अधोवेदिका जानुनोरधो हस्तौ निवेश्य २, एवं तिर्यग्वेदिका जानुनो: पार्श्वतो हस्तौ नीत्वा ३, द्विधावेदिका बाह्वोरन्तरे द्वे अपि जानुनी कृत्वा ४, एकतोवेदिका एकं जानु बाह्वोरन्तरे 5 कृत्वेति ५, षष्ठी प्रमादप्रत्युपेक्षणेति प्रक्रमः, इह गाथेवितहकरणम्मि तुरियं अन्नं अन्नं च गिण्ह आरभडा । अंतो व होज कोणा निसियण तत्थेव संमद्दा ॥ गुरुउग्गहादठाणं पप्फोडण रेणुगुंडिए चेव । विक्खेवं तुक्खेवो वेइयपणगं च छद्दोसा ॥ [पञ्चव० २४६-७] इति । 10 उक्तविपरीतां प्रत्युपेक्षणामेवाह- छव्विहेत्यादि, षड्विधा अप्रमादेन प्रमादविपर्ययेण प्रत्युपेक्षणा, अप्रमादप्रत्युपेक्षणा प्रज्ञप्ता, तद्यथा- अणच्चा० गाहा, वस्त्रमात्मा वा न नर्तितं न नृत्यदिव कृतं यत्र तदनर्तितं प्रत्युपेक्षणम्, वस्त्रं नर्त्तयत्यात्मानं वेत्येवमिह चत्वारो भङ्गाः १, तथा वस्त्रं शरीरं वा न वलितं कृतं यत्र तदवलितमिहापि तथैव चतुर्भङ्गी २, तथा न विद्यतेऽनुबन्ध: सातत्यं प्रस्फोटकादीनां यत्र तदननुबन्धि, इन् 15 समासान्तोऽत्र दृश्य:, नानुबन्धि अननुबन्धीति वा ३, तथा न विद्यते मोसली उक्तलक्षणा तत्र तदमोसलि ४, छप्पुरिमा नव खोड त्ति तत्र वस्त्रे प्रसारिते सति चक्षुषा निरूप्य तदर्वाग्भागं परावर्त्य निरूप्य च त्रयः पुरिमाः कर्तव्याः प्रस्फोटका इत्यर्थः, तथा तत् परावर्त्य चक्षुषा निरूप्य च पुनरपरे त्रय: पुरिमा एवमेते षट्, तथा नव खोटका ते च त्रयस्त्रयः प्रमार्जनानां त्रयेण त्रयेणान्तरिता: कार्या इति, पदद्वयेनापि पञ्चमी 20 अप्रमादप्रत्युपेक्षणोक्ता, पुरिमखोटकानां सदृशत्वादिति । तथा पाणेर्हस्तस्योपरि प्राणानां प्राणिनां कुन्थ्वादीनामित्यर्थः, विसोहणि त्ति विशोधना प्रमार्जना प्रत्युपेक्ष्यमाणवस्त्रेणैव कार्या नवैव वारा:, उक्तन्यायेन खोटकान्तरितेति षष्ठी अप्रमादप्रत्युपेक्षणेति, इह गाथे वत्थे अप्पाणम्मि य चउहा अणच्चावियं अवलियं च । अणुबंधि निरंतरया तिरिउड्डऽहघट्टणा मुसली ॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy