________________
षष्ठमध्ययनं षट्स्थानकम् ।
[सू० ५०२ ]
कुर्वन्नित्यर्थः, धम्मस्स त्ति श्रुतस्य चारित्रस्य वा, आचार्योपाध्यायानां च चतुर्वर्णस्य श्रमणादिभेदेन चतुष्प्रकारस्य, यक्षावेशेन चैव निमित्तान्तरकुपितदेवाधिष्ठितत्वेन, मोहनीयस्य मिथ्यात्व - वेद - शोकादेरुदयेनेति ।
[सू० ५०२] छव्विधे पमाते पन्नत्ते, तंजहा- मज्जपमाते णिद्दपमाते विसयपमाते कसायपमाते जूतपमाते पडिलेहणापमाए ।
[टी०] उन्मादसहचरः प्रमाद इति तमाह - छव्विहेत्यादि, षड्विधः षट्प्रकार: प्रमदनं प्रमादः प्रमत्तता सदुपयोगाभाव इत्यर्थः, प्रज्ञप्तः, तद्यथा - मद्यं सुरादि, तदेव प्रमादकारणत्वात् प्रमादो मद्यप्रमादः, यत आह
चित्तभ्रान्तिर्जायते मद्यपानाच्चित्ते भ्रान्ते पापचर्यामुपैति ।
पापं कृत्वा दुर्गतिं यान्ति मूढास्तस्मान्मद्यं नैव देयं न पेयम् ॥ [ एवं सर्वत्र, नवरं निद्रा प्रतीता, तद्दोषश्चायं -
निद्राशीलो न श्रुतं नापि वित्तं लब्धुं शक्तो हीयते चैष ताभ्याम् । ज्ञानद्रव्याभावतो दुःखभागी लोकद्वैते स्यादतो निद्रयाऽलम् ॥ [ विषयाः शब्दादयः, तेषां चैवं प्रमादता
-A-24
विषयव्याकुलचित्तो हितमहितं वा न वेत्ति जन्तुरयम् । तस्मादनुचितचारी चरति चिरं दुःखकान्तारे ॥ [ कषायाः क्रोधादयः, तेषामप्येवं प्रमादता
]
] इति ।
चित्तरत्नमसङ्क्लिष्टमान्तरं धनमुच्यते ।
यस्य तन्मुषितं दोषैस्तस्य शिष्टा विपत्तयः ॥ [हारि० अष्टक० २४७ ] इति ।
द्यूतं प्रतीतम्, तदपि प्रमाद एव, यतः
Jain Education International
६१७
] इति ।
For Private & Personal Use Only
5
10
द्यूतासक्तस्य सच्चित्तं धनं कामा: सुचेष्टितम् ।
नश्यन्त्येव परं शीर्षं नामापि च विनश्यति ॥ [ ] इति ।
तथा प्रत्युपेक्षणं प्रत्युपेक्षणा, सा च द्रव्य-क्षेत्र - काल - भावभेदाच्चतुर्धा, तत्र द्रव्यप्रत्युपेक्षणा वस्त्र-पात्राद्युपकरणानामशन-पानाद्याहाराणां च चक्षुर्निरीक्षणरूपा, क्षेत्रप्रत्युपेक्षणा कायोत्सर्ग-निषदन - शयनस्थानस्य स्थण्डिलानां मार्गस्य विहारक्षेत्रस्य 25
15
20
www.jainelibrary.org