SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ६१६ ___ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे इरियं न य सोहेई पेहाईयं च संजमं काउं । थामो वा परिहायइ गुणणुप्पेहासु य असत्तो ॥ [पिण्डनि० २६३-२६४] त्ति, वोच्छिंदमाणे त्ति परित्यजन्, आतङ्के ज्वरादावुपसर्गे राज-स्वजनादिजनिते प्रतिकूला-ऽनुकूलस्वभावे तितिक्षणे अधिसहने, कस्या: ? ब्रह्मचर्यगुप्ते: 5 मैथुनव्रतसंरक्षणस्य, आहारत्यागिनो हि ब्रह्मचर्यं सुरक्षितं स्यादिति, प्राणिदया च संपातिमत्रसादिसंरक्षणं तप: चतुर्थादि षण्मासान्तं प्राणिदयातपस्तच्च तद्धेतुश्च प्राणिदयातपोहेतुस्तस्मात् प्राणिदयातपोहे तोर्दयादिनिमित्तमित्यर्थः, तथा शरीरव्यवच्छेदार्थं देहत्यागाय आहारं व्यवच्छिन्दन्नातिक्रामत्याज्ञामिति प्रक्रमः, इह गाथे10 आयंको जरमाई राया सन्नायगा य उवसग्गे । बंभवयपालणट्ठा पाणिदया वासमहियाई ॥ तवहेउ चतुत्थाई जाव य छम्मासिओ तवो होइ । छटुं सरीरवोच्छेयणट्ठया होअणाहारो ॥ [पिण्डनि० ६६७-६६८] इति । [सू० ५०१] छहिं ठाणेहिं आता उम्मायं पाउणेज्जा, तंजहा- अरहंताणमवण्णं 15 वदमाणे १, अरहंतपन्नत्तस्स धम्मस्स अवन्नं वदमाणे २, आयरियउवज्झायाणमवन्नं वदमाणे ३, चाउवण्णस्स संघस्स अवनं वदमाणे ४, जक्खावेसेण चेव ५, मोहणिजस्स चेव कम्मस्स उदएणं ६ ।। [टी०] अनन्तरं श्रमणस्याहाराग्रहणकारणान्यभिहितानीति श्रमणादेर्जीवस्यानुचितकारिण उन्मादस्थानान्याह- छहीत्यादि, इदं च सूत्रं पञ्चस्थानक एव 20 व्याख्यातप्रायम्, नवरं षड्भि: स्थानैरात्मा जीव: उन्मादम् उन्मत्ततां प्राप्नुयात्, उन्मादश्च महामिथ्यात्वलक्षणस्तीर्थकरादीनामवर्णं वदतो भवत्येव तीर्थकराद्यवर्णवदनकुपितप्रवचनदेवतातो वा असौ ग्रहरूपो भवेदिति, पाठान्तरेण उम्मायपमायं ति उन्मादः सग्रहत्वं स एव प्रमादः प्रमत्तत्वम् आभोगशून्यतोन्मादप्रमादः, अथवोन्मादश्च प्रमादश्च अहितप्रवृत्ति-हिताप्रवृत्ती, 25 उन्मादप्रमादं प्राप्नुयादिति, अवनं ति अवर्णम् अश्लाघामवज्ञां वा वदन् व्रजन् वा १. सोहेइ जहोवइटुं च संजमं । पा० जे२ ॥ २. "ट्टयाए हो" जे१ ॥ ३. दृश्यतां सू० ४२६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy