________________
[सू० ५००] षष्ठमध्ययनं षट्स्थानकम् ।
६१५ वैमानिकास्त्वधोऽवधयः शेषा निरवधय एवेति भावना, 'विवक्षाप्रधानानि च प्रायोऽन्यत्रापि सूत्राणी'ति ।
[सू० ५००] छहिं ठाणेहिं समणे निग्गंथे आहारमाहारेमाणे णातिक्कमति, तंजहावेयण-वेयावच्चे इरियट्ठाए य संजमट्ठाए ।
5 तह पाणवत्तियाए छटुं पुण धम्मचिंताए ॥४३॥ छहिं ठाणेहिं समणे निग्गंथे आहारं वोच्छिंदमाणे णातिक्कमति, तंजहाआतंके उवसग्गे तितिक्खणे बंभचेरगुत्तीए । पाणिदयातवहेउं सरीरवोच्छेयणट्ठाए ॥४४॥ [टी०] अनन्तरसूत्रे मनुष्याणामजीवाधिगम उक्त इति मनुष्यप्रत्यासत्त्या 10 संयतमनुष्याणामाहारग्रहणा-ऽग्रहणकारणानि सूत्रद्वयेनाह- छहीत्यादि कण्ठ्यम्, नवरमाहारम् अशनादिकमाहारयन् अभ्यवहरन्नातिक्रामत्याज्ञाम्, पुष्टकारणत्वाद्, अन्यथा त्वतिक्रामत्येव, रागादिभावात्, तद्यथा- वेयणेत्यादिगाथा, वेदना च क्षुद्वेदना वैयावृत्यं च आचार्यादिकृत्यकरणं वेदनावैयावृत्यं तत्र विषये भुञ्जीत, वेदनोपशमार्थं वैयावृत्यकरणार्थं चेति भावः, ईर्या गमनं तस्या विशुद्धिर्युगमात्रनिहित- 15 दृष्टित्वमी_विशुद्धिस्तस्यै इदमीर्याविशुद्ध्यर्थम्, इह च विशुद्धिशब्दलोपादीर्यार्थमित्युक्तम्, बुभुक्षितो हीर्याशुद्धावशक्तः स्यादिति तदर्थमिति, च: समुच्चये, संयम: प्रेक्षोत्प्रेक्षा-प्रमार्जनादिलक्षण:, तदर्थम्, तथेति कारणान्तरसमुच्चये, प्राणा: उच्छ्वासादयो बलं वा प्राणस्तेषां तस्य वा वृत्ति: पालनं तदर्थं प्राणसंधारणार्थमित्यर्थः, षष्ठं पुनः कारणं धर्मचिन्तायै गुणनानुप्रेक्षार्थमित्यर्थः । इत्येतानि षट् कारणानीति । अत्र 20 भाष्यगाथे
नत्थि छुहाए सरिसा वियणा भुंजिज्ज तप्पसमणट्ठा ।
छाओ बुभुक्षित: वेयावच्चं न तरइ काउं अओ 'भुंजे ॥ १. पिण्डनिर्युक्तावपीदं गाथाद्वयं वर्तते ६६२, ६६६ । प्रवचनसारे उद्धृतमिदं गाथाद्वयम् । इयमेका गाथा
ओघनिर्युक्तावपि ५८० ॥ २. वेयण गाहा पा० जे२ ॥ ३. शमनार्थं पा० जे२ ॥ ४. गाथाद्वयमिदं पिण्डनियुक्तौ एव वर्तते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org