________________
___ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
दिशस्तासु गत्यादींश्च प्ररूपयन्नाह– छद्दिसाओ इत्यादि सूत्रकदम्बकम्, इदं च त्रिस्थानक एव व्याख्यातम्, तथापि किञ्चिदुच्यते- प्राचीना पूर्वा, प्रतीचीना पश्चिमा, दक्षिणा प्रतीता, उदीचीना उत्तरा, ऊर्ध्वमधश्चेति प्रतीते, विदिशो न दिशो विदिक्त्वादेवेति षडेवोक्ता:, अथवा आभिरेव जीवानां वक्ष्यमाणा गतिप्रभृतय: पदार्थाः प्राय: प्रवर्त्तन्ते, 5 षट्स्थानकानुरोधेन वा विदिशो न विवक्षिता इति षडेव दिश उक्ता इति ।
षड् भिर्दिग्भिर्जीवानां गति: उत्पत्तिस्थानगमनं प्रवर्त्तते, अनुश्रेणिगमनात्तेषामित्येवमेतानि चतुर्दश सूत्राणि ने यानि, नवरं गतिरागतिश्च प्रज्ञापकस्थानापेक्षिण्यौ प्रसिद्ध एव, व्युत्क्रान्ति: उत्पत्तिस्थानप्राप्तस्योत्पादः, साऽपि
ऋजुगतौ षट्स्वेव दिक्षु, तथा आहारः प्रतीतः, सोऽपि षट्स्वेव दिक्षु, 10 एतद्व्यवस्थितप्रदेशावगाढपुद्गलानामेव जीवेन स्पर्शनात् स्पृष्टानामेव चाहरणादिति,
एवं षट्दिक्ता यथासम्भवं वृद्ध्यादिष्वप्यूह्येति, तथा वृद्धिः शरीरस्य, निवृद्धिः हानिस्तस्यैव, विकुर्वणा वैक्रियकरणम्, गतिपर्यायो गमनमानं न परलोकगमनरूप: तस्य गत्यागतिग्रहणेन गृहीतत्वादिति, समुद्घातो वेदनादिक: सप्तविध:, कालसंयोग:
समयक्षेत्रमध्ये आदित्यादिप्रकाशसम्बन्धलक्षणः, दर्शनं सामान्यग्राही बोध:, तच्चेह 15 गुणप्रत्ययावध्यादिप्रत्यक्षरूपम्, तेनाभिगमो वस्तुन: परिच्छेदस्तत्प्राप्तिर्वा दर्शनाभिगम:, एवं ज्ञानाभिगमोऽपि, जीवाभिगमः सत्त्वाधिगमो गुणप्रत्ययावध्यादिप्रत्यक्षतः, अजीवाभिगम: पुद्गलास्तिकायाद्यधिगम:, सोऽपि तथैवेति, एवमिति यथा 'छहिं दिसाहिं जीवाणं गई पवत्तई' त्यादिसूत्राण्युक्तानि एवं चतुर्विंशतिदण्डकचिन्तायां
‘पंचेंदियतिरिक्खजोणियाणं छहिं दिसाहिं गई'त्यादीन्यपि वाच्यानि, तथा मनुष्यसूत्राण्यपि, 20 शेषेषु नारकादिपदेषु षट्सु दिक्षु गत्यादीनां सामस्त्येनासम्भवात्, तथाहि- नारकादीनां
द्वाविंशतेर्जीवविशेषाणां नारक-देवेषूत्पादाभावादूर्वाधोदिशोर्विवक्षया गत्यागत्योरभाव:, तथा दर्शन-ज्ञान-जीवा-ऽजीवाभिगमा गुणप्रत्ययावधिलक्षणप्रत्यक्षरूपा न सन्त्येव तेषाम्, भवप्रत्ययावधिपक्षे तु नारक-ज्योतिष्कास्तिर्यगवधयो भवनपतिव्यन्तरा ऊर्ध्वावधयो १. दृश्यतां सू० १७१ २. प्रतीत: नास्ति जे१ ॥ ३. विकुर्वतो वैक्रिय जे१ खं० । विकुळणा पा०
जे२ ॥ ४. धर्मास्तिकाया जे१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org