SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ६१२ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे शरीरलक्षणोक्तप्रमाणभाग् अधस्तु हीनाधिक प्रमाणमिति, तथा सादीति आदिरिहोत्सेधाख्यो नाभेरधस्तनो देहभागो गृह्यते, तेनाऽऽदिना शरीरलक्षणोक्तप्रमाणभाजा सह वर्त्तते यत्तत् सादि, सर्वमेव हि शरीरमविशिष्टेनाऽऽदिना सह वर्त्तत इति विशेषणान्यथानुपपत्तेरिह विशिष्टता लभ्यते, अत: सादि उत्सेधबहुलं 5 परिपूर्णोत्सेधमित्यर्थः, खुजे त्ति अधस्तनकायमडहम्, इहाधस्तनकायशब्देन पादपाणिशिरोग्रीवमुच्यते, तद् यत्र शरीरलक्षणोक्तप्रमाणव्यभिचारि यत् पुन: शेष तद्यथोक्तप्रमाणं तत् कुब्जमिति, वामणे त्ति मडहकोष्ठम्, यत्र हि पाणिपादशिरोग्रीवं यथोक्तप्रमाणोपेतं यत् पुन: शेष कोष्ठं तन्मडहं न्यूनाधिकप्रमाणं तद्वामनम्, हुंडे त्ति सर्वत्रासंस्थितम्, यस्य हि प्रायेणैकोऽप्यवयव: शरीरलक्षणोक्तप्रमाणेन न संवदति तत् 10 सर्वत्रासंस्थितं हुंडमिति, उक्तं च तुल्लं १ वित्थरबहुलं २ उस्सेहबहुं च ३ मडहकोठं च ४ । हेट्ठिल्लकायमडहं ५ सव्वत्थासंठियं हुंडं ॥ [बृहत्सं० १७६] ति, इह गाथायां सूत्रोक्तक्रमापेक्षया चतुर्थ-पञ्चमयोर्व्यत्ययो दृश्यत इति । अणत्तवओ त्ति अकषायो ह्यात्मा आत्मा भवति स्वस्वरूपावस्थितत्वात्, तद्वान्न 15 भवति य: सोऽनात्मवान् सकषाय इत्यर्थः, तस्य अहिताय अपथ्याय अशुभाय पापाय असुखाय वा दु:खाय अक्षमाय असङ्गतत्वाय अक्षान्त्यै वा अनिःश्रेयसाय अकल्याणाय अननुगामिकत्वाय अशुभानुबन्धाय भवन्ति, मानकारणतयैहिकामुष्मिकापायजनकत्वादिति, पर्यायो जन्मकाल: प्रव्रज्याकालो वा, स च महानेव मानकारणं भवतीति महानिति विशेषणं द्रष्टव्यम्, अथवा गृहस्थापेक्षया अल्पोऽपि प्रव्रज्यापर्यायो 20 मानहेतुरेवेति, तत्र जन्मपर्यायो महानहिताय, यथा बाहुबलिनः, एवमन्येऽपि यथासम्भवं वाच्या:, नवरं परियाले त्ति परिवार: शिष्यादिः, श्रुतं पूर्वगतादि, उक्तं च जह जह बहुस्सुओ संमओ य सीसगणसंपरिवुडो य । अविणिच्छिओ य समए तह तह सिद्धंतपडिणीओ ॥ [सम्मति० ३६६] इति । तपः अनशनादि, लाभोऽन्नादीनाम्, पूजा स्तवादिरूपा, तत्पूर्वक: सत्कारो 25 वस्त्राभ्यर्चनम्, पूजायां वा आदर: पूजासत्कार इति । १. दृश्यतां सू०३२७ टी०१ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy