SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ षष्ठमध्ययनं षट्स्थानकम् । [सू० ४९०-४९७] इत्यादिसूत्रादारभ्य आ लोकस्थितिसूत्रात् प्रकरणमाह, गतार्थं चैतत्, नवरम् अहवा छव्विहेत्यत्र सम्मूर्च्छनजमनुष्यास्त्रिविधाः कर्म्मभूमिजादिभेदेन, तथा गर्भव्युत्क्रान्तिकास्त्रिधा तथैवेति षोढा । चारण त्ति जङ्घाचारणा विद्याचारणाश्च, विद्याधरा वैताढ्यादिवासिनः । छद्धणुसहस्साइं ति त्रीन् क्रोशानित्यर्थः छच्च अद्धपलिओवमाई ति त्रीणि 5 पल्योपमानीत्यर्थः । संहननम् अस्थिसञ्चयः, वक्ष्यमाणोपमानोपमेय: शक्तिविशेष इत्यन्ये, तत्र वज्रं कीलिका, ऋषभः परिवेष्टनपट्टः, नाराच: उभयतो मर्कटबन्ध:, यत्र द्वयोरस्थ्नोरुभयतो मर्कटबन्धेन बद्धयोः पट्टाकृतिना तृतीयेनास्थ्ना परिवेष्टितयोरुपरि तदस्थित्रयभेदि कीलिकाकारं वज्रनामकमस्थि भवति तद्वज्रऋषभनाराचं प्रथमम्, यत्र तु कीलिका 10 नास्ति तद् ऋषभनाराचं द्वितीयम्, यत्र तूभयोर्मर्कटबन्ध एव तन्नाराचं तृतीयम्, यत्र त्वेकतो मर्कटबन्धो द्वितीयपार्श्वे कीलिका तदर्द्धनाराचं चतुर्थम्, कीलिकाविद्धास्थिद्वयसञ्चितं कीलिकाख्यं पञ्चमम्, अस्थिद्वयपर्यन्तस्पर्शनलक्षणां सेवामार्त्तं सेवामागतमिति सेवार्त्तं षष्ठम्, शक्तिविशेषपक्षे त्वेवंविधदार्वादेरिव दृढत्वं संहननमिति, इह गाथे , वज्जरिसभनारायं पढमं बीयं च रिसभनारायं । नारायमद्धनाराय खीलिया तह य छेव ॥ ३ रिसहो य होइ पट्टो वजं पुण खीलियं वियाणाहि । उभओ मक्कडबंधं नारायं तं वियाणाहि ॥ [ बृहत्सं० १७३ - १७४] ति । Jain Education International ६११ संस्थानं शरीराकृतिरवयवरचनात्मिका, तत्र समाः शरीरलक्षणोक्तप्रमाणावि - 20 संवादिन्यश्चतस्रोऽश्रयो यस्य तत् समचतुरश्रम्, अश्रिस्त्विह चतुर्दिग्विभागोपलक्षिता: शरीरावयवास्ततश्च सर्वेऽप्यवयवाः शरीरलक्षणोक्तप्रमाणाव्यभिचारिणो यस्य न तु न्यूनाधिकप्रमाणास्तत्तुल्यं समचतुरश्रम्, तथा न्यग्रोधवत् परिमण्डलं न्यग्रोधपरिमण्डलम्, यथा न्यग्रोध उपरि सम्पूर्णावयवः अधस्तनभागे पुनर्न तथा तथेदमपि नाभेरुपरि विस्तरबहुलं १. 'त्रितय पा० जे२ ॥ २. नारायं खं० पा० ॥। ३. खीलिया जे१ ॥ For Private & Personal Use Only 15 www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy