SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ [सू० ४६७-४६८] पञ्चममध्ययनं पञ्चस्थानकम् । तृतीय उद्देशकः । ५९९ मिच्छत्ताइ न गच्छइ न य गच्छावेइ नाणुजाणाइ । जं मणवइकाएहिं तं भणियं भावपडिकमणं ॥ [ ] ति । विशेषविवक्षायां तूक्ता एव चत्वारो भेदा:, यदाहमिच्छत्तपडिक्कमणं तहेव अस्संजमे पडिक्कमणं । कसायाण पडिक्कमणं जोगाण य अप्पसत्थाणं ॥ [आव० नि० १२६४] ति। 5 [सू० ४६७] पंचहिं ठाणेहिं सुत्तं वाएजा, तंजहा-संगहट्टयाते, उवग्गहट्टताते, णिज्जरट्ठयाते, सुते वा मे पजवजाते भविस्सति, सुतस्स वा अव्वोच्छित्तिणयट्ठयाते ।। पंचहिं ठाणेहिं सुत्तं सिक्खेजा, तंजहा-णाणट्ठताते, दंसणट्ठताते, चरित्तट्ठताते, वुग्गहविमोतणट्टयाते, अहत्थे वा भावे जाणिस्सामीति कट्ट । 10 [टी०] भावप्रतिक्रमणं च श्रुतभावितमतेरेव भवतीति श्रुतं वाचनीयं शिक्षणीयं चेत्येतद्धेतूपदर्शनार्थं सूत्रे पंचहीत्यादि सुगमम्, नवरं सुत्तं श्रुतं सूत्रमात्रं वा वाचयेत् पाठयेत्, तत्र सङ्ग्रहः शिष्याणां श्रुतोपादानम्, स एवार्थः प्रयोजनम्, तस्मै सङ्ग्रहार्थाय, सङ्ग्रह एवार्थो यस्य स सङ्ग्रहार्थः, तद्भावस्तत्ता, तया सङ्ग्रहार्थतया, श्रुतसङ्ग्रहो भवत्वेषामिति प्रयोजनेनेति भावः, अथवैत एव मया एवं सगृहीता भवन्ति शिष्यीकृता 15 भवन्तीति सङ्ग्रहार्थतया, तत्सङ्ग्रहायेति भावः, एवमुपग्रहार्थायोपग्रहार्थतया वा, एवं ह्येते भक्त-पान-वस्त्राद्युत्पादनसमर्थतयोपष्टम्भिता भवन्त्विति भावः, निर्जरार्थाय निर्जरणमेवं मे कर्मणां भवत्विति, श्रुतं वा ग्रन्थो मे मम वाचयत इति गम्यते पर्यवजातं जातविशेष स्फुटतया भविष्यतीति, अव्यवच्छित्त्या नयनं श्रुतस्य कालान्तरप्रापणम् अव्यवच्छित्तिनयः, स एवार्थस्तस्मै इति । ज्ञानं तत्त्वानां परिच्छेदो 20 दर्शनं तेषामेव श्रद्धानं चारित्रं सदनुष्ठानं व्यग्रहो मिथ्याभिनिवेशस्तस्य तस्माद्वा परेषां विमोचनं व्युद्ग्रहविमोचनं तदर्थाय तदर्थतया वा, अहत्थे त्ति यथास्थान् यथावस्थितान् यथार्थान् वा यथाप्रयोजनान् भावान् जीवादीन् यथार्थान् वा यथाद्रव्यान् भावान् पर्यायान् ज्ञास्यामीति कृत्वा इति हेतो: शिक्षत इति । - [सू० ४६८] सोहम्मीसाणेसु णं कप्पेसु विमाणा पंचवण्णा पन्नत्ता, तंजहा- 25 किण्हा जाव सुक्किला १॥ १. आव० हारि० चतुर्थे प्रतिक्रमणाध्ययने गा० १२५० टीकायाम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy