________________
५९८
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे अणुभासइ गुरुवयणं अक्खरपयवंजणेहिं परिसुद्धं । पंजलिउडो अभिमुहो तं जाणऽणुभासणासुद्धं ॥ [आव० भा० २४९] नवरं गुरुर्भणति- वोसिरति, शिष्यस्तु वोसिरामि त्ति । अनुपालनाशुद्धं यथा
कंतारे दुन्भिक्खे आयंके वा महया महतीत्यर्थः समुप्पण्णे । 5 जं पालियं न भग्गं तं जाणऽणुपालणासुद्धं ॥ [आव० भा० २५०], भावशुद्धं यथा
रागेण व दोसेण व परिणामेण व इहलोकाद्याशंसालक्षणेन न दूसियं जं तु । तं खलु पच्चक्खाणं भावविशुद्धं मुणेयव्वं ॥ [आव० भा० २५१] ति । अन्यदपि षष्ठं ज्ञानशुद्धमिति निर्युक्तावुक्तम्, यदाह
पच्चक्खाणं जाणइ कप्पे जं जम्मि होइ कायव्वं । 10 मूलगुणउत्तरगुणे तं जाणसु जाणणासुद्धं ॥ [आव० भा० २४७] ति । इह तु पञ्चस्थानकानुरोधान्नेदमुक्तम्, श्रद्धानशुद्धेन वा सगृहीतत्वात्, ज्ञानविशेषत्वात् श्रद्धानस्येति ।
प्रत्याख्याने च कृते कदाचिदतिचार: सम्भवति, तत्र च प्रतिक्रमणं कर्त्तव्यमिति प्रतिक्रमणं निरूपयन्नाह- पंचविहेत्यादि, प्रतीपं क्रमणं प्रतिक्रमणम्, एतदुक्तं भवतिशुभयोगेभ्योऽशुभयोगान् क्रान्तस्य शुभेष्वेव गमनमिति, उक्तं च
स्वस्थानाद्यत् परं स्थानम् प्रमादस्य वशागत: । तत्रैव क्रमणं भूय: प्रतिक्रमणमुच्यते ॥ क्षायोपशमिकाद्भावादौदयिकस्य वशं गतः । तत्रापि च स एवार्थः प्रतिकूलगमात् स्मृतः ॥ [ ] इति ।
इदं च विषयभेदात् पञ्चधेति, तत्र आश्रवद्वाराणि प्राणातिपातादीनि, तेभ्य: 20 प्रतिक्रमणं निवर्त्तनं पुनरकरणमित्यर्थ: आश्रवद्वारप्रतिक्रमणम्, असंयमप्रतिक्रमणमिति
हृदयम्, मिथ्यात्वप्रतिक्रमणं यदाभोगा-ऽनाभोग-सहसाकारैर्मिथ्यात्वगमनं तन्निवृत्तिः, एवं कषायप्रतिक्रमणम्, योगप्रतिक्रमणं तु यत् मनो-वचन-कायव्यापाराणामशोभनानां व्यावर्त्तनमिति, आश्रवद्वारादिप्रतिक्रमणमेवाविवक्षितविशेष भावप्रतिक्रमणमिति, आह
च
१. जाणसुभासणा' जे१ खं० ॥ २. वोसिरंति जे१ खं० ॥ ३. योगान्तरं क्रान्तस्य- आव० हारि० चतुर्थे
प्रतिक्रमणाध्ययने ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org