________________
[सू० ४६५-४६६ ]
पञ्चममध्ययनं पञ्चस्थानकम् । तृतीय उद्देशकः ।
[सू० ४६५ ] पंचविधे सज्झाए पन्नत्ते, तंजहा - वायणा, पुच्छणा, परियट्टणा, अणुप्पेहा, धम्मका ।
[टी०] उक्तं ज्ञानावरणमिति तत्क्षपणोपायविशेषस्य स्वाध्यायस्य भेदानाहपंचविहेत्यादि सुगमम्, नवरं शोभनम् आ मर्यादया अध्ययनं श्रुतस्याधिकमनुसरणं स्वाध्याय:, तत्र वक्ति शिष्यस्तं प्रति गुरोः प्रयोजकभावो वाचना पाठनमित्यर्थः, गृहीतवाचनेनापि संशयाद्युत्पत्तौ पुनः प्रष्टव्यमिति पूर्वाधीतस्य सूत्रादेः शङ्कितादौ प्रश्नः प्रच्छनेति, प्रच्छनाविशोधितस्य सूत्रस्य मा भूद्विस्मरणमिति परिवर्त्तना, सूत्रस्य गुणनमित्यर्थः, सूत्रवदर्थेऽपि सम्भवति विस्मरणमतः सोऽपि परिभावनीय इत्यनुप्रेक्षणमनुप्रेक्षा, चिन्तनिकेत्यर्थः एवमभ्यस्तश्रुतेन धर्मकथा विधेयेति धर्मस्य श्रुतरूपस्य कथा व्याख्या धर्मकथेति ।
[सू० ४६६] पंचविधे पच्चक्खाणे पन्नत्ते, तंजहा - सद्दहणसुद्धे, विणयसुद्धे, अणुभासणासुद्धे, अणुपालणासुद्धे, भावसुद्धे ।
पंचविधे पडिक्कमणे पन्नत्ते, तं जहा - आसवदारपडिक्कमणे, मिच्छत्तपडिक्कमणे, कसायपडिक्कमणे, जोगपडिक्कमणे, भावपडिक्कमणे I
[टी०] धर्मकथामन्थनिर्मथितमिथ्याभावाश्च भव्याः शुद्धं प्रत्याख्यानं प्रपद्यन्त इति 15 तदाह - पंचविहेत्यादि, प्रति प्रतिषेधत आख्यानं मर्यादया कथनं प्रतिज्ञानं प्रत्याख्यानम्, तत्र श्रद्धानेन तथेतिप्रत्ययलक्षणेन शुद्धं निरवद्यं श्रद्धानशुद्धम्, श्रद्धानाभावे हि तदशुद्धं भवति, एवं सर्वत्र, इह निर्युक्तिगाथा
"
पच्चक्खाणं सव्वण्णुदेसियं जं जहिं जया काले
तं जो सद्दहइ नरो तं जाणसु सद्दहणसुद्धं ॥ [आव० भा० २४६ ] विनयशुद्धं यथा
किइकम्मस्स विसोहिं पउंजए जो अहीणमइरित्तं ।
मणवयणकायगुत्तो तं जाणसु विणयओ सुद्धं ॥ [ आव० भा० २४८] अनुभाषणाशुद्धं यथा–
१. गाथा: पासं० ॥
Jain Education International
५९७
For Private & Personal Use Only
5
10
20
www.jainelibrary.org