________________
5
५९६
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
जं सामि-काल-कारण- विसय-परोक्खत्तणेहिं तुल्लाई । तब्भावे सेसाइं तेणाईए मइसुयाई ॥ [ विशेषाव० ८५] । मतिपूर्वकत्वात् श्रुतस्य विशिष्टमत्यंशरूपत्वाद्वा श्रुतस्यादौ मतेरुपन्यास इति उक्तं
मइपुव्वं जेण सुयं तेणाई मई विट्ठिो वा ।
मइभेओ चेव सुयं तो मइसमणंतरं भणियं ॥ [ विशेषाव० ८६ ] ति । तथा काल-विपर्यय-स्वामि- लाभसाधर्म्याद् मतिज्ञानश्रुतज्ञानानन्तरमवधिज्ञानस्योपन्यास:, तथाहि— यावानेव मतिज्ञान - श्रुतज्ञानयोः स्थितिकालः प्रवाहापेक्षा अप्रतिपतितैकसत्त्वाधारापेक्षया च तावानेवावधिज्ञानस्यापि, तथा यथैव मतिज्ञान10 श्रुतज्ञानयोर्विपर्ययज्ञाने भवतः एवमिदमपि मिथ्यादृष्टेर्विभङ्गज्ञानं भवतीति, तथा तयो: स्वामी स एवास्यापि भवतीति, तथा विभङ्गज्ञानिनस्त्रिदशादेः सम्यग्दर्शनावाप्तौ युगपदेव ज्ञानत्रयलाभसम्भव इति, उक्तं च- काल- विवज्जय- सामित्त-लाभसाहम्मओवी तत्तो । [ विशेषाव० ८७]
25
च
तथा छद्मस्थ-विषय- भावा-ऽध्यक्षत्वसाधर्म्यादवधिज्ञानानन्तरं मनः पर्यवज्ञानस्यो15 पन्यासः, तथाहि— यथाऽवधिज्ञानं छद्मस्थस्य भवति एवं मनः पर्यायज्ञानमपि, तथा यथाऽवधिज्ञानं रूपिद्रव्यविषयमेवमेतदपि, तथा यथाऽवधिज्ञानं क्षायोपशमिके भावे तथेदमपि, तथा यथाऽवधिज्ञानं प्रत्यक्षं तथेदमपीति, उक्तं च- माणसमेत्तो छउमत्थविसयभावादिसामन्ना ॥ [ विशेषाव० ८७ ] इति । तथा मन: पर्यायज्ञानानन्तरं केवलज्ञानोपन्यासः तस्य सकलज्ञानोत्तमत्वात्, तथा अप्रमत्तयतिस्वामिसाधर्म्यात्, तथाहि - यथा 20 मनःपर्यायज्ञानमुत्तमयतेरेव भवति एवमिदमपि, तथा अवसानलाभात्, यो हि सर्वज्ञानानि समासादयति स खल्वन्त एवेदमाप्नोतीति, तथा विपर्ययाभावसाधर्म्यात्, तथाहि-- यथा मन:पर्यायज्ञानं सविपर्ययं न भवत्येवं केवलमपीति, उक्तं च
अंते केवलमुत्तमजइसामित्तावसाणलाभाओ ।
एत्थं च मतिसुयाइं परोक्खमियरं च पच्चक्खं ॥ [ विशेषाव० ८८] ति । उक्तस्वरूपस्य ज्ञानस्य यदावारकं कर्म्म तत्स्वरूपाभिधानाय सूत्रं पंचेत्यादि सुगमम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org