________________
५९५
___ 10
[सू० ४६४] पञ्चममध्ययनं पञ्चस्थानकम् । तृतीय उद्देशकः ।
तेणावधीयते तम्मि वाऽवहाणं च तोऽवही सो य। मजाया जं ताए दव्वाइ परोप्परं मुणइ ॥ [विशेषाव० ८२] इति । तथा परिः सर्वतोभावे, अवनम् अवः, अयनम् वा अय:, आयो वा गमनं वेदनमिति पर्यायाः, परि अव: अय: आयो वा पर्यव: पर्यय: पर्यायो वा, मनसि मनसो वा पर्यवः पर्यय: पर्यायो वा मन:पर्यवो मनःपर्ययो मनःपर्यायो वा, सर्वतस्तत्परिच्छेद इत्यर्थः, 5 स एव ज्ञानं मनःपर्यवज्ञानं मनःपर्ययज्ञानं मनःपर्यायज्ञानं वा, अथवा मनसः पर्यायाः पर्यया पर्यवा वा भेदा धर्मा बाह्यवस्त्वालोचनादिप्रकारा इत्यर्थः, तेषु तेषां वा ज्ञानं मन:पर्यायज्ञानं मन:पर्ययज्ञानं मन:पर्यवज्ञानमिति, आह च
पज्जवणं पजयणं पज्जाओ वा मणम्मि मणसो वा । तस्स व पजायादिन्नाणं मणपजवन्नाणं ॥ [विशेषाव० ८३] ति ।
केवलम् असहायं मत्यादिज्ञाननिरपेक्षत्वात् शुद्धं वा आवरणमलकलङ्करहितत्वात् सकलं वा तत्प्रथमतयैवाशेषतदावरणाभावतः सम्पूर्णोत्पत्ते: असाधारणं वा अनन्यसदृशत्वात् अनन्तं वा ज्ञेयानन्तत्वात् यथावस्थिताशेषभूतभवद्भाविभावस्वभावावभासीति भावना, तच्च तत् ज्ञानं चेति केवलज्ञानम्, उक्तं च
केवलमेगं सुद्धं सगलमसाहारणं अणंतं च ।। पायं च नाणसद्दो नाणसमाणाहिगरणोऽयं ॥ [विशेषाव० ८४] ति ।
प्राय इति मन:पर्यायज्ञाने तत्पुरुषस्यापि दर्शितत्वात् । इह च स्वामि-काल-कारणविषय-परोक्षत्वसाधर्म्यात् तद्भावे च शेषज्ञानसद्भावादादावेव मतिज्ञान-श्रुतज्ञानयोरुपन्यास इति, तथाहि- य एव मतिज्ञानस्य स्वामी स एव श्रुतज्ञानस्य, जत्थ मतिनाणं तत्थ सुयनाणं [नन्दीसू० १५] इति वचनात्, तथा यावान् मतिज्ञानस्य स्थितिकाल- 20 स्तावानेवेतरस्य, प्रवाहापेक्षया अतीतादि: सर्व एव, अप्रतिपतितैकजीवापेक्षया तु षट्षष्टिसागरोपमाण्यधिकानीति, तथा यथा मतिज्ञानं क्षयोपशमहेतुकं तथा श्रुतज्ञानमपि, यथा च मतिज्ञानमोघत: सर्वद्रव्यादिविषयमेवं श्रुतज्ञानमपि, यथा च मतिज्ञानं परोक्षं एवं श्रुतज्ञानमपि, तथा मतिज्ञानश्रुतज्ञानभावे चावध्यादिभावादिति, आह च१. दव्वाइं जे१ ॥ २. नामसमाणा - विशेषाव० ॥
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org