________________
५९४
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे तदेव, स्वविषयग्रहणरूपत्वादिति, प्रज्ञप्तं प्ररूपितमर्थतस्तीर्थकरैः सूत्रतो गणधरैः, उक्तं
च
अत्थं भासइ अरूहा सुत्तं गंथंति गणहरा निउणं । सासणस्स हियट्ठाए, तओ सुत्तं पवत्तइ ॥ [आव०नि०९२, विशेषाव०१११९] इति ।
अथवा प्राज्ञात् तीर्थकरात् प्राज्ञैर्वा प्रज्ञया वा आप्तं प्राप्तमात्तं वा प्राज्ञाप्तं प्रज्ञाप्त प्राज्ञात्तं प्रज्ञात्तं वा, तद्यथा- अर्थाभिमुखोऽविपर्ययरूपत्वान्नियतोऽसंशयरूपत्वाद् बोध: संवेदनमभिनिबोध:, स एव स्वार्थिकप्रत्ययोपादानादाभिनिबोधिकम्, अभिनिबोधे वा भवं तेन वा निर्वृत्तं तन्मयं तत्प्रयोजनं वेत्याभिनिबोधिकम्, अभिनिबुध्यते वा तत् कर्मभूतमित्याभिनिबोधिकम् अवग्रहादिरूपं मतिज्ञानमेव, तस्य स्वसंविदितरूपत्वात्, 10 भेदोपचारादित्यर्थः, अभिनिबुध्यते वा अनेनास्मादस्मिन् वेत्याभिनिबोधिकं तदावरणकर्मक्षयोपशम इति भावार्थः, आत्मैव वा अभिनिबोधोपयोगपरिणामानन्यत्वादभिनिबुध्यत इत्याभिनिबोधिकम्, तच्च तज्ज्ञानं चेत्याभिनिबोधिकज्ञानमिति, आह च
अत्थाभिमुहो नियओ बोहो जो सो मओ अभिनिबोहो । 15 सो चेवाभिणिबोहियमहव जहाजोग्गमाजोजं ॥
तं तेण तओ तम्मि य सो वाऽभिणिबुज्झए तओ वा तं । [विशेषाव० ८०-८१] ति।
तथा श्रूयत इति श्रुतं शब्द एव, भावश्रुतकारणत्वात् कारणे कार्योपचारादिति भावार्थ:, श्रूयते वा अनेनास्मादस्मिन् वेति श्रुतम्, तदावरणकर्मक्षयोपशम इत्यर्थः,
आत्मैव वा श्रुतोपयोगपरिणामानन्यत्वाच्छृणोतीति श्रुतम्, श्रुतं च तज्ज्ञानं च श्रुतज्ञानम्, 20 आह च
तं तेण तओ तम्मि य सुणेइ सो वा सुयं तेणं ॥ [विशेषाव० ८१] ति ।
तथा अवधीयतेऽनेनास्मादस्मिन् वेत्यवधि:, अवधीयत इत्यधोऽधो विस्तृतं परिच्छिद्यते मर्यादया वेत्यर्थः, स चावधिज्ञानावरणक्षयोपशम एव, तदुपयोगहेतुत्वादिति,
अवधानं वा अवधिर्विषयपरिच्छेदनमित्यर्थः, अवधिश्चासौ ज्ञानं चेत्यवधिज्ञानम्, 25 उक्तं च
१. प्रज्ञैर्वा जे१ ॥ २. त्वादभेदोप पा० विना ॥ ३. इति भावार्थ: जे१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org