________________
[सू० ४६१]
पञ्चममध्ययनं पञ्चस्थानकम् । तृतीय उद्देशकः ।
पुष्पादि यच्छन्तीति, तथा वर्षं वृष्टिं मेघो न सम्यग् वर्षति यत्रेति गम्यते, तमाहुर्लक्षणतः संवत्सरं कार्मणम्, यस्य ऋतुसंवत्सरः सावनसंवत्सरश्चेति पर्यायौ ।
पुढविगाहा, यत्र त्विति गम्यते, तथा च यत्र तु संवत्सरे पृथिव्युदकयो रसं माधुर्य-स्निग्धतालक्षणं पुष्पफलानां च ददात्यादित्यः तथास्वभावत्वात्, तथाविधोदकाभावेऽपीति भाव:, अत एवाल्पेनापि वर्षेण सम्यक् यथाभिमतं निष्पद्यते 5 सस्यं शाल्यादिधान्यं स लक्षणत आदित्यसंवत्सर उच्यत इति शेष इति ।
५९१
आइच्च गाहा, आदित्यतेजसा तप्ताः पृथिव्यादितापेऽप्युपचारात् क्षणादयस्तप्ता इति मन्तव्यम्, तत्र क्षणो मुहूर्त:, लवः एकोनपञ्चाशदुच्छ्वासप्रमाणः, दिवस : अहोरात्रः, ऋतु: मासद्वयप्रमाण:, परिणमन्ति अतिक्रामन्ति यत्रेति गम्यते, यश्च पूरयति वायूत्खातरेणुभिः स्थलानि भूमिप्रदेशविशेषान् तमाहुराचार्या लक्षणतः 10 संवत्सरमभिवर्द्धितं जाणे त्ति त्वमपि शिष्य ! तं तथैव जानीहीति । संवत्सरव्याख्यानमिदं तत्त्वार्थटीकाद्यनुसारेण प्रायो लिखितमिति ।
[सू० ४६१] पंचविधे जीवस्स णिज्जाणमग्गे पन्नत्ते, तंजहा - पातेहिं, ऊरूहिं, उरेणं, सिरेणं, सव्वंगेहिं । पाएहिं णिज्जायमाणे निरयंगामी भवति, ऊरूहिं णिज्जायमाणे तिरियगामी भवति, उरेणं निज्जायमाणे मणुयगामी भवति, 15 सिरेणं णिज्जायमाणे देवगामी भवति, सव्वंगेहिं निज्जायमाणे सिद्धिगतिपज्जवसाणे पण्णत्ते ।
[टी०] अनन्तरं संवत्सर उक्तः, स च काल:, कालात्यये च शरीरिणां शरीरान्निर्गमो भवतीत्यतस्तन्मार्गं निरूपयन्नाह - पंचविहेत्यादि व्यक्तम्, किन्तु निर्याणं मरणकाले शरीरिण: शरीरान्निर्गमः, तस्य मार्गो निर्याणमार्गः पादादिकः, तत्र पाएहिं ति पादाभ्यां 20 मार्गभूताभ्यां करणताऽऽपन्नाभ्यां जीव: शरीरान्निर्यातीति शेष:, एवम् ऊरुभ्यामित्यादावपि ।
अथ क्रमेणास्य निर्याणमार्गस्य फलमाह - पादाभ्यां शरीरान्निर्यान् जीवो निरयगामि त्ति प्राकृतत्वादनुस्वार इति, निरयगामी भवति, एवमन्यत्रापि, नवरं सर्वाणि च तान्यङ्गानि च सर्वाङ्गानि तैर्निर्यान्, सिद्धिगतिः पर्यवसानं संसरणपर्यन्तो यस्य स सिद्धिगतिपर्यवसानः प्रज्ञप्त इति ।
१. तत्त्वार्थ० सिद्ध० ४।१५ ॥
Jain Education International
For Private & Personal Use Only
25
www.jainelibrary.org