________________
५९२
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे _[सू० ४६२] पंचविधे छेदणे पन्नत्ते, तंजहा- उप्पाछेदणे, वियच्छेयणे, बंधणच्छेयणे, पएसच्छेदणे, दोधारच्छेदणे ।
पंचविधे आणंतरिते पन्नत्ते, तंजहा- उप्पायणंतरिते, वियाणंतरिते, पतेसाणंतरिते, समयाणंतरिते, सामण्णाणंतरिते । 5 [टी०] निर्याणं चायुष्कच्छेदने भवतीति छेदनं प्ररूपयन्नाह-पंचविहेत्यादि कण्ठ्यम्,
केवलम् उप्प त्ति उत्पादो देवत्वादिपर्यायान्तरस्य, तेन छेदो जीवादिद्रव्यस्य विभाग उत्पादच्छेदनम्, तथा विय त्ति व्ययो विगमो मानुषत्वादिपर्यायस्य, तेन छेदनं जीवादेरेवेति व्ययच्छेदनम्, तथा बन्धनस्य जीवापेक्षया कर्मण: स्कन्धापेक्षया तु सम्बन्धस्य छेदनं विनशनं बन्धनच्छेदनमिति, तथा तस्यैव प्रदेशतो निर्विभागावयवतो 10 बुद्ध्या छेदनं विभजनं प्रदेशच्छेदनम्, तथा जीवादेरेव द्रव्यस्य द्विधा करणं द्विधाकारः,
स एव छेदनं द्विधाकारच्छेदनम्, उपलक्षणं चैतत् त्रिधाकारादीनाम्, अनेन च देशत: छेदनमुक्तम्, अथवोत्पादस्य उत्पत्ते: छेदनं विरहो यथा नरकगतौ द्वादश मुहूर्ता:, व्ययच्छे दनम् उद्वर्तनाविरह:, सोऽप्येवम्, बन्धनविरहो यथोपशान्तमोहस्य
सप्तविधकर्मबन्धनापेक्षया, प्रदेशच्छे दनं प्रदेशविरहो यथा 15 विसंयोजितानामनन्तानुबन्ध्यादिकर्मप्रदेशानाम्, तथा द्वे धारे यस्य तद् द्विधारं तच्च तच्छेदनं च द्विधारच्छेदनमुपलक्षणत्वादस्यैकधाराद्यपि दृश्यम्, तच्च क्षुर-खड्ग-चक्रादि, एतच्च छेदनशब्दसामान्यादिहोपात्तमिति, प्रदेशच्छेदनस्थाने क्वचित् पंथच्छेयणे त्ति पठ्यते, तत्र पथिच्छेदनं मार्गच्छेदनं मार्गातिक्रमणमित्यर्थः ।
छेदनस्य च विपर्यय आनन्तर्यमिति तदाह- पंचविहेत्यादि, आनन्तर्यं 20 सातत्यमच्छेदनमविरह इत्यर्थः, तत्रोत्पादस्य यथा निरयगतौ जीवानामुत्कर्षत:
असङ्ख्येया: समया:, एवं व्ययस्यापि, प्रदेशानां समयानां च तत् प्रतीतमेव, अविवक्षितोत्पाद-व्ययादिविशेषणमानन्तर्यमानं सामान्यानन्तर्यम्, श्रामण्यस्य वा आकर्षविरहेणानन्तर्यं श्रामण्यानन्तर्यमिति बहुजीवापेक्षया वा श्रामण्यप्रतिपत्त्यानन्तर्यम्, तच्चाष्टौ समया इति । १. साम्यादि पा० जे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org