________________
१२०
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे कर्म-मासपर्यायैर्निष्पन्न: षष्ट्यधिकाहोरात्रशतत्रयमान इति ३६०, आइच्चे त्ति आदित्यसंवत्सरः, स च त्रिंशद्दिनान्यर्द्धं चेति, एवंविधमासद्वादशकनिष्पन्न: षट्षष्ट्यधिकाहोरात्रशतत्रयमान इति ३६६ ।
अयमेवानन्तरोक्तो नक्षत्रादिसंवत्सरो लक्षणप्रधानतया लक्षणसंवत्सर इति । 5 तत्र नक्षत्रमाह- समगं गाहा, समकं समतया नक्षत्राणि कृत्तिकादीनि योगं
कार्तिकपौर्णमास्यादितिथ्या सह सम्बन्धनं योजयन्ति कुर्वन्ति, इदमुक्तं भवति– यानि नक्षत्राणि यासु तिथिषूत्सर्गतो भवन्ति, यथा कार्तिक्यां कृत्तिका:, तानि तास्वेव यत्र भवन्ति, यथोक्तम्
जेट्ठो वच्चइ मूलेण सावणो धणिट्ठाहिं । 10 अद्दासु य मग्गसिरो सेसा नक्खत्तनामिया मासा ॥ [ ] इति
तथा यत्र समतयैव ऋतव: परिणमन्ति, न विषमतया, कार्तिक्या अनन्तरं हेमन्तर्तुः पौष्या अनन्तरं शिशिरर्तुरित्येवमवतरन्तीति भाव:, यश्च न नैव अतीव उष्णं धर्मो यत्र सोऽत्युष्णः, न नैवाऽतिशीत: अतिहिम:, बहूदकं यत्र स बहूदकः, स च भवति
लक्षणतो नक्षत्र इति, नक्षत्रचारलक्षणलक्षितत्वान्नक्षत्रसंवत्सर इति, अस्यां च गाथायां 15 पञ्चमाष्टमावंशकौ पञ्चकलावितीयं विचित्रेति छंदोविद्भिरुपदिश्यते, पबहुला विचित्तत्ति गाथालक्षणात् पत्ति पंचकलो गण इति ।
ससि गाहा ससि त्ति विभक्तिलोपात् शशिना चन्द्रेण सकलपौर्णमासी समस्तराकां य: संवत्सर इति गम्यते अथवा यत्र शशी सकलां पौर्णमासी योजयति आत्मना
सम्बन्धयति । तथा विषमचारीणि यथास्वतिथिष्ववर्तीनि नक्षत्राणि यत्र स 20 विषमचारिनक्षत्रः, तथा कटुकोऽतिशीतोष्णसद्भावात् बहूदकश्च, दीर्घत्वं प्राकृतत्वात्,
तमेवंविधमाहुर्लक्षणतो ब्रुवते तद्विद: संवत्सरं चन्द्रं चन्द्रचारलक्षणलक्षितत्वादिति । विसमं गाहा, विषमं वैषम्येण प्रवालं पल्लवाङ्कुरः, तद्विद्यते येषां ते प्रवालिनो वृक्षा इति गम्यते, परिणमन्ति प्रवालवत्तालक्षणया अवस्थया जायन्ते, अथवा प्रवालिनो
वृक्षा: परिणमन्ति अङ्कुरोद्रेदाद्यवस्थां यान्ति, तथा अनृतुषु अस्वकालं ददति 25 प्रयच्छन्ति पुष्पफलम्, यथा चैत्रादिषु कुसुमादिदायिनोऽपि स्वरूपेण चूता: माघादिषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org